Enter your Email Address to subscribe to our newsletters

रायपुरनगरम्, २८ जुलाईमासः (हि.स.)। सहकारितामन्त्रिणः केदारकश्यपस्य अध्यक्षतायां उच्चस्तरीया विभागीय-समीक्षासभा अद्य मङ्गलवासरे मध्याह्ने द्वादशवादने आयोजिता भविष्यति। एषा सभा छत्तीसगढराज्य-सहकारीधनागारस्य नवरायपुरस्थिते सभाकक्षे भविष्यति।
अस्याः सभायाः मुख्योद्देश्यं सहकारिता-विभागस्य अधीनं सञ्चालितानां विविधजन-कल्याणकारी-योजनानां विभागीयकार्याणां च प्रगतेः समीक्षा अस्ति।
अस्यां समीक्षासभायां सहकारिता-विभागस्य सर्वे उच्चाधिकारिणः, प्रबन्धसञ्चालकाः, सम्भागीय-संयुक्तायुक्ताः, उपसहायकायुक्ताः, जनपद-सहकारी-केन्द्रीय-धनागाराणां मुख्यकार्य-पालन-अधिकारिणश्च आवश्यक-सूचनाभिः सह उपस्थातुं निर्दिष्टाः सन्ति।
अस्याः समीक्षासभायाः माध्यमेन सहकारिताक्षेत्रे सञ्चाल्यमानाः योजनाः अधिकप्रभावकारिण्यः, अधिक-पारदर्शीन्यश्च कथं भवेयुरिति विषये विचारविमर्शः करिष्यते।
Hindusthan Samachar / Divya Ranjan