‘क्रिएट इन इण्डिया चैलेंज’-इत्यस्य द्वितीय-सत्रस्य प्रारम्भः, युवभ्यः प्रतिभाप्रदर्शनस्य प्रगतेः च अवसरः प्राप्स्यते
नवदेहली, २८ जुलाईमासः (हि.स.)। सूचना-प्रसारण-मन्त्रालयेन ‘क्रिएट इन इण्डिया चैलेंज’-इत्यस्य द्वितीय-सत्रस्य कृते आवेदनानि आमन्त्रितानि सन्ति। अस्य प्रयत्नस्य उद्देश्यं एनीमेशन, कृत्रिम-बुद्धिमत्ता, गेमिङ्ग, चलचित्रं, सङ्गीत, डिजिटल-मीडिया तथा अन्ये
क्रिएट इन इंडिया चैलेंज सीजन-1 के विजेता,एवं प्रतिभागी


नवदेहली, २८ जुलाईमासः (हि.स.)। सूचना-प्रसारण-मन्त्रालयेन ‘क्रिएट इन इण्डिया चैलेंज’-इत्यस्य द्वितीय-सत्रस्य कृते आवेदनानि आमन्त्रितानि सन्ति। अस्य प्रयत्नस्य उद्देश्यं एनीमेशन, कृत्रिम-बुद्धिमत्ता, गेमिङ्ग, चलचित्रं, सङ्गीत, डिजिटल-मीडिया तथा अन्येषु सृजनात्मकक्षेत्रेषु कार्यरत् युवभ्यः स्वप्रतिभाप्रदर्शनस्य नूतनावसराणां च प्रदानम् अस्ति।

मन्त्रालयस्य अनुसारं प्रथमसत्राय देश-विदेशाभ्यां उत्तमा प्रतिक्रिया प्राप्ता आसीत्। ए.एस.आई.एफ.ए. इण्डिया द्वारा आयोजिते ‘वेव्स अवार्ड ऑफ एक्सिलेन्स’ इत्यस्मिन् भारतस्य ५८ नगरेभ्यः तथा १५ देशेभ्यः प्रायः १५०० प्रविष्टयः प्राप्ताः आसन्। तासु ४६ प्रतिभागिनः ‘वेव्स् २०२५’ मध्ये स्वप्रतिभां प्रदर्शयितुं अवसरं प्राप्तवन्तः, यदा तु २० विजेतारः सम्मानिताः अभवन्। प्रथमसत्रस्य विजेतृषु सम्मिलितस्य सुरेश: एरियाट् इत्यस्य चलचित्रं ‘देसी ऊन’ अनन्तरं अन्ताराष्ट्रियस्तरे अपि अनेकैः प्रतिष्ठितैः पुरस्कारैः सम्मानितम् अभवत् तथा च प्रसिद्धिम् अलभत।

मन्त्रालयेन उक्तं यत् द्वितीयसत्रे मीडिया तथा मनोरञ्जनक्षेत्रसम्बद्धानां संस्थानां एवं उद्योग-सङ्घानां च ५० तः अधिक-विषयेषु प्रतियोगिताः आयोजयितुं आमन्त्रणं कृतम् अस्ति। एतेषु ए.आई., एनीमेशन, वी.एफ.एक्स., एक्स.आर., गेमिङ्ग, ई-स्पोर्ट्स, कॉमिक्स, चलचित्रं, प्रसारणं, सङ्गीतं, नृत्यं तथा डिजिटल-मीडिया इत्यादिनी क्षेत्राणि सम्मिलितानि सन्ति।

चयनिताभ्यः संस्थाभ्यः प्रत्येकं प्रतियोगितायाः सफल-आयोजनार्थं सूचना-प्रसारण-मन्त्रालयस्य पक्षतः एककोटि-रूप्यकाणि यावत् आर्थिक-सहायतां प्रदातुं शक्यते। इच्छुकाः संस्थाः २०२६ तमस्य वर्षस्य जुलाई-मासस्य ३१ दिनाङ्कपर्यन्तं ‘वेव्स् बाजार’ पटलद्वारा अन्तर्जाल-आवेदनं कर्तुं शक्नुवन्ति।

मन्त्रालयस्य कथनम् अस्ति यत् अस्य प्रयत्नस्य माध्यमेन नवीनप्रतिभानां परिचयः भविष्यति, युवभ्यः विशेषज्ञैः मार्गदर्शनं प्राप्स्यते, तेषां कौशलस्य विकासः भविष्यति तथा च ते स्वकीयाः नवीनविचाराः सफलपरियोजनासु, उत्पादेषु तथा बौद्धिकसम्पदासु परिवर्तयितुं समर्थाः भविष्यन्ति।

अस्य प्रयत्नस्य उद्देश्यं भारतस्य तीव्रगतिना वर्धमानस्य मीडिया तथा मनोरञ्जनक्षेत्रस्य नूतनऊर्जया संवर्धनं तथा देशस्य सृजनात्मक-अर्थव्यवस्थायाः सुदृढीकरणम् अस्ति।

Hindusthan Samachar / Divya Ranjan