Enter your Email Address to subscribe to our newsletters

झाडग्रामनगरम्, २८ जुलाईमासः (हि.स.)। विश्व-आदिवासी-दिवसस्य कार्यक्रमे सहभागितार्थं राज्यस्य मुख्यमन्त्री शुभेन्दु-अधिकारी नवम-अगस्तमासे झाड़ग्रामनगरस्य प्रवासं करिष्यति। मुख्यमन्त्रिपदस्य ग्रहणानन्तरम् एषः तस्य प्रथमः झाड़ग्राम-प्रवासः भविष्यति। मुख्यमन्त्रिणः आगमनं दृष्ट्वा प्रशासनिकस्तरे सिद्धताः तीव्रतया क्रियमाणाः सन्ति।
अस्मिन् कार्यक्रमे सम्बन्धेन सोमवासरे सायंकाले झाड़ग्राम-जनपद-समाहर्तुः कार्यालये महत्त्वपूर्णा सिद्धता-सभा आयोजिता। अस्यां सभायाम् आदिवासी-विकास-विभागस्य मन्त्री क्षुदिराम-टुडू, पशुपालन-पशुसंसाधन-विकास-विभागस्य स्वतन्त्रप्रभारमन्त्री राजेश-महातः, कृषिविभागस्य राज्यमन्त्री अमिय-किस्कू, झाड़ग्राम-विधानसभाक्षेत्रस्य विधायकः लक्ष्मीकान्त-सावः, बिनपुर-विधानसभाक्षेत्रस्य विधायकः प्रणत-टुडू, जनपद-समाहर्त्री आकाङ्क्षा-भास्करः, आरक्षक-अधीक्षकः मानव-सिङ्गला तथा जनपद-प्रशासनस्य आरक्षक-विभागस्य च अनेके वरिष्ठाधिकारिणः उपस्थिताः आसन्।
प्रशासनिकसूत्रानुसारं मुख्यमन्त्री नवम-अगस्तमासे हेलिकॉप्टरयानद्वारा झाडग्रामनगरम् आगमिष्यति। विश्व-आदिवासी-दिवसस्य मुख्यकार्यक्रमे सहभागित्वेन सह जनपदसम्बद्धानां विविधविषयाणामपि प्रशासनिकस्तरे सिद्धताः क्रियमाणाः सन्ति। मुख्यमन्त्रिणः प्रवासं दृष्ट्वा सुरक्षाव्यवस्था तथा अन्याः सर्वाः आवश्यकसिद्धताः अपि युद्धस्तरे सम्पाद्यमानाः सन्ति।
Hindusthan Samachar / Divya Ranjan