मुख्यमंत्री डॉ. यादवो विश्व हेपेटाइटिस दिवसे नागरिकेभ्यः स्वच्छताम् अङ्गीकर्तुं दत्तवान् संदेशम्
भोपालम्, 28 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः विश्वहेपेटाइटिसदिवसस्य अवसरे उक्तवान् यत् अयं दिवसः अस्मान् जागरूकान् करोति यत् हेपेटाइटिसरोगात् रक्षणाय दूषितभोजनस्य दूषितजलस्य च सेवनात् अस्माभिः परिहर्तव्यम्। मुख्यमन्त्र
मुख्यमंत्री डॉ. मोहन यादव (फाइल फोटो)


भोपालम्, 28 जुलाईमासः (हि.स.)।

मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः विश्वहेपेटाइटिसदिवसस्य अवसरे उक्तवान् यत् अयं दिवसः अस्मान् जागरूकान् करोति यत् हेपेटाइटिसरोगात् रक्षणाय दूषितभोजनस्य दूषितजलस्य च सेवनात् अस्माभिः परिहर्तव्यम्।

मुख्यमन्त्री डा यादवः मङ्गलवासरे विश्वहेपेटाइटिसदिवसस्य सन्दर्भे स्वसन्देशे उक्तवान् यत् हेपेटाइटिसरोगात् रक्षणाय आरम्भात् एव पीडितस्य समुचितचिकित्सा आवश्यकी भवति। सः उक्तवान् यत् अस्माभिः शुद्धभोजनस्य शुद्धजलस्य च एव उपयोगः करणीयः। सहैव अन्ये अपि आवश्यकसावधान्यः पालनाय प्रेरणीयाः।

उल्लेखनीयम् अस्ति यत् प्रतिवर्षं जुलैमासस्य अष्टाविंशतितमे दिने विश्वहेपेटाइटिसदिवसः आचर्यते। अस्य मुख्योद्देश्यम् वायरलहेपेटाइटिसरोगस्य यकृत्शोथस्य विषये जनजागरूकतायाः वर्धनम् तस्य निवारणस्य परीक्षणस्य उपचारस्य च प्रोत्साहनम् अस्ति। अयं दिवसः नोबेलपुरस्कारविजेतुः वैज्ञानिकस्य डा बारूक ब्लमबर्गस्य जन्मदिवसस्य स्मरणार्थम् आचर्यते। तेन हेपेटाइटिस बी विषाणोः आविष्कारः कृतः।

---------------

Hindusthan Samachar / Dheeraj Maithani