Enter your Email Address to subscribe to our newsletters

कोलकाता, 28 जुलाईमासः (हि. स.)। पश्चिमबङ्गसर्वकारेण स्वास्थ्यसाथीयोजनायाः अन्तर्गताः सन्तः किन्तु सामाजिकआर्थिकमानदण्डानां कारणेन आयुष्मानभारतीयोजनायाः लाभं न प्राप्नुवन्तः परिवाराः प्रति नूतना स्वास्थ्यबीमायोजना प्रवर्तयितुं निर्णयः कृतः। मुख्यमन्त्रिणः शुभेन्दुअधिकारिणः घोषणानुसारं मुख्यमन्त्रीस्वास्थ्यबीमायोजना एमएमएसबीवाई इत्यस्याः अन्तर्गतं पात्रपरिवारेभ्यः प्रतिवर्षं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सासुविधा प्रदास्यते।
स्वास्थ्यविभागेन शनिवासरे निर्गतायाम् अधिसूचनायाम् उक्तं यत् अस्याः योजनायाः उद्देश्यं तेषां परिवाराणाम् आर्थिकसुरक्षाप्रदानम् अस्ति ये स्वास्थ्यसाथीयोजनायाः लाभार्थिनः सन्ति किन्तु आयुष्मानभारतीयोजनायाः पात्राः न सन्ति। येषां परिवाराणां वार्षिकम् आयः अष्टलक्षरूप्यकाधिकः अस्ति अथवा ये अन्यस्य राज्यस्य केन्द्रसर्वकारस्य वा स्वास्थ्ययोजनायाः कर्मचारीराज्यबीमायोजनायाः अन्तर्गताः सन्ति अथवा सप्ततिवर्षाधिकवयस्काः सन्ति ते अस्याः योजनायाः लाभं न प्राप्स्यन्ति। सप्ततिवर्षाधिकवयस्काः आयुष्मानभारतीयोजनायाः अन्तर्गते एव समाविष्टाः भविष्यन्ति।
अधिसूचनानुसारं यदि कस्यचित् व्यक्तेः सीएए अथवा एसआईआर सम्बद्धे कस्यचित् न्यायाधिकरणे प्रकरणं प्रलम्बितम् अस्ति किन्तु सः अन्याः सर्वाः पात्रताशर्ताः पूरयति तर्हि सः अस्याः योजनायाः लाभात् वञ्चितः न भविष्यति। किन्तु यदि तस्य नाम सम्बद्धाभिलेखेभ्यः अपसार्यते तर्हि सः मुख्यमन्त्रीस्वास्थ्यबीमायोजनायाः आयुष्मानभारतीयोजनायाश्च लाभं न प्राप्स्यति।
नूतनयोजनायाः अन्तर्गतं प्रत्येकपरिवाराय फ्लोटरआधारेण प्रतिवर्षं अधिकतमं पञ्चलक्षरूप्यकपर्यन्तं नगदरहितचिकित्सासुविधा प्रदास्यते। स्वास्थ्यसाथीयोजनायाः विपरीतं केवलं परिवारमुख्यायाः नाम्ना परिचयपत्रं न प्रदास्यते अपितु परिवारस्य प्रत्येकसदस्यस्य नाम्ना पृथक् परिचयपत्रं निर्मास्यते। एतानि परिचयपत्राणि पूर्णतया निःशुल्कानि भविष्यन्ति तथा परिवारस्य सदस्यसङ्ख्यायाः कापि सीमा न भविष्यति। पूर्वविद्यमानाः रोगाः अपि योजनायाः अन्तर्गताः भविष्यन्ति किन्तु चिकित्साव्ययं पूर्वं दत्त्वा अनन्तरं धनप्रत्यावर्तनस्य सुविधा न भविष्यति।
चिकित्साकाले आधाराधारितपरिचयस्य आभाकार्डस्य च उपयोगः अनिवार्यः भविष्यति। उपचारः आयुष्मानभारतीयोजनायाः निर्धारितपैकेजानुसारं तथा तस्याः योजनायाः सम्बद्धेषु चिकित्सालयेषु एव भविष्यति। स्वास्थ्यविभागः अस्याः योजनायाः नोडलविभागः भविष्यति तथा अस्याः क्रियान्वयनस्य उत्तरदायित्वं राज्यस्वास्थ्यसंस्थायै समर्पितम् अस्ति।
राज्यमन्त्रिमण्डलेन द्वाविंशतितमे जुलाईमासे अस्याः योजनायाः अनुमोदनं प्रदत्तम्। ततः पञ्चविंशतितमे जुलाईमासे स्वास्थ्यविभागेन अधिसूचना निर्गता यस्याः सूचना सोमवासरे सार्वजनिकीकृता।
Hindusthan Samachar / Dheeraj Maithani