देहली-नगरे महिलाभ्यः रक्षाबन्धनात् प्रतिमासं २५०० रूप्यकाणि प्रदास्यन्ते
–देहली-लक्ष्मी-योजना-पटलेन १ अगस्त-मासात् आवेदनं कर्तुं शक्यते नवदेहली, २८ जुलाईमासः (हि.स.)। देहली-सर्वकारेण महिलानाम् आर्थिक-सशक्तीकरणस्य सामाजिक-सुरक्षायाश्च दिशि मङ्गलवासरे ऐतिहासिकं पदक्षेपं कृत्वा देहली-लक्ष्मी-योजना अनुमोदिता। अस्याः योजनाय
दिल्ली की मुख्यमंत्री रेखा गुप्ता दिल्ली सचिवालय में मंगलवार को पत्रकारों को संबोधित करते हुए।


दिल्ली की मुख्यमंत्री रेखा गुप्ता दिल्ली सचिवालय में मंगलवार को पत्रकारों को संबोधित करते हुए।


–देहली-लक्ष्मी-योजना-पटलेन १ अगस्त-मासात् आवेदनं कर्तुं शक्यते

नवदेहली, २८ जुलाईमासः (हि.स.)। देहली-सर्वकारेण महिलानाम् आर्थिक-सशक्तीकरणस्य सामाजिक-सुरक्षायाश्च दिशि मङ्गलवासरे ऐतिहासिकं पदक्षेपं कृत्वा देहली-लक्ष्मी-योजना अनुमोदिता। अस्याः योजनायाः आवेदन-प्रक्रिया देहली-लक्ष्मी-योजना-पोर्टल इत्यस्य माध्यमेन अन्तर्जालमार्गेण भविष्यति। एतदर्थम् अन्तर्जाल-पटलस्य आरम्भः १ अगस्तमासात् भविष्यति, येन पात्राः महिलाः आवेदनं कर्तुं शक्नुवन्ति। रक्षाबन्धन-पर्व २८ अगस्तमासे भविष्यति।

मुख्यमन्त्रिण्याः रेखा-गुप्तायाः अध्यक्षतायां मङ्गलवासरे सचिवालये सम्पन्नायां मन्त्रीमण्डल-सभायां योजनायाः मार्गदर्शक-सिद्धान्ताः अनुमोदिताः। अस्याः महत्त्वाकाङ्क्षिण्याः योजनायाः उद्देश्यं महिलाः आर्थिकदृष्ट्या सुदृढाः सामाजिकदृष्ट्या सशक्ताश्च कर्तुम् अस्ति। अस्याः योजनायाः अन्तर्गतं पात्राभ्यः महिलाभ्यः प्रतिमासं २५०० रूप्यकाणां वित्तीय-सहायता प्रदास्यते। वित्तीयवर्षे २०२६–२७ अस्यै योजनायै ५११० कोटि-रूप्यकाणां प्रावधानं कृतम् अस्ति तथा च देहली-नगरस्य १७ लक्षाधिकाः महिलाः लाभान्विताः भविष्यन्तीति अपेक्षा अस्ति।

मन्त्रिमण्डल-सभायाः अनन्तरं मुख्यमन्त्री रेखा-गुप्ता मन्त्रिपरिषदः सदस्यैः सह संयुक्त-संवाददाता-सम्मेलने देहली-लक्ष्मी-योजनायाः औपचारिक-घोषणाम् अकरोत्। सा अवदत् यत् देहली-नगरस्य भगिनीनाम् आर्थिक-स्वावलम्बनाय सर्वकारेण यः सङ्कल्पः कृतः आसीत्, सः अद्य पूर्णः जातः। अस्याः योजनायाः अन्तर्गतं सर्वाभ्यः पात्राभ्यः महिलाभ्यः प्रतिमासं २५०० रूप्यकाणां वित्तीय-सहायता प्रदास्यते। एषा योजना लक्षशः महिलानां जीवने आर्थिक-सुरक्षायाः आत्मनिर्भरतायाश्च नूतनमध्यायं लिखिष्यति। देहली-सर्वकारेण स्वकार्यकालस्य केवलं सपादवर्षस्य अन्तरे महिलाभ्यः कृतं महत्त्वपूर्णं वचनं परिपालितम्। सा सर्वाः देहली-महिलाः अस्मिन् ऐतिहासिक-निर्णये अभिनन्दित्वा अवदत् यत् एषः सर्वकारः जनतायाः आशीर्वादेन निर्मितः अस्ति तथा सदा जनहिते महिला-हिते च कार्यं करिष्यति।

अस्मिन् अवसरे मन्त्रिणः प्रवेश-साहिब-सिंहः, आशीष-सूदः, मनजिन्दर-सिंह-सिरसा, कपिल-मिश्रः, डॉ. पङ्कज-सिंहः तथा वरिष्ठ-अधिकारिणः उपस्थिताः आसन्।

मुख्यमन्त्री अवदत् यत् एषा योजना केवलं आर्थिक-सहायतायाः पर्यन्तं न सीमिता, अपितु अस्याः माध्यमेन शिक्षा, स्वास्थ्यं, सामाजिक-दायित्वं तथा महिलानां समग्र-विकासः अपि प्रोत्साह्यते। योजनायाः अन्तर्गतं बालकानां विद्यालयेषु नामाङ्कनम्, अपार-परिचयपत्रम्, आभा-परिचयपत्रम्, समये टीकाकरणं तथा पोषण-अनुवर्तन-पञ्जीकरणम् इत्यादीनि महत्त्वपूर्णानि कार्याणि प्रोत्साहयिष्यन्ते। महिलाः ‘एकं वृक्षं मातुः नाम्ना’, स्वच्छ-भारत-अभियानम् तथा एकवार-उपयोग्य-प्लास्टिकस्य अनुपयोगः इत्यादिषु जनहित-अभियानेषु अपि संयोजयिष्यन्ते। ताभ्यः स्वसहायता-समूहैः कौशल-प्रशिक्षणेन च सम्बद्धुं प्रोत्साहनम् अपि प्रदास्यते, येन ताः आर्थिकदृष्ट्या अधिकं समर्थाः भवेयुः।

योजनायाः प्रमुख-विशेषताः—

२१ वर्षेभ्यः ६० वर्षपर्यन्तं वयस्काभ्यः पात्राभ्यः महिलाभ्यः योजनायाः लाभः भविष्यति, यासां परिवारस्य वार्षिकी आयः २.५० लक्ष-रूप्यकाणि यावत् अस्ति।

योजना प्रारम्भतः त्रिवर्षपर्यन्तं प्रवर्तिष्यते। तदनन्तरं आवश्यक-संशोधनैः सह तस्याः निरन्तरता भविष्यति।

पात्राभ्यः महिलाभ्यः प्रतिमासं २५०० रूप्यकाणि प्राप्तुं द्वौ विकल्पौ भविष्यतः।

प्रथम-विकल्पे १५०० रूप्यकाणि आर.डी./एफ.डी. रूपेण निक्षेपितानि भविष्यन्ति, शेषाणि १००० रूप्यकाणि सी.बी.डी.सी. डिजिटल-रूप्यक-कोषे प्रदास्यन्ते। डिजिटल-कोषे प्राप्तधनस्य उपयोगः सर्वकारेण निर्धारितानुसारं अनुमत-वस्तुषु सेवासु च एव कर्तुं शक्यते।

द्वितीय-विकल्पे महिला सम्पूर्णानि २५०० रूप्यकाणि आर.डी./एफ.डी. रूपेण एव स्वीकर्तुं शक्नोति। अस्य विकल्पस्य उद्देश्यं महिलानां पूञ्जी-निवेशं प्रोत्साहयितुम् अस्ति।

अपात्राः महिलाः—

याः महिलाः पूर्वमेव अन्यस्य आर्थिक-सहायता-योजनायाः अथवा निवृत्ति-वेतनस्य लाभं प्राप्नुवन्ति, आयकरं ददति, जी.एस्.टी.-विवरणपत्रं समर्पयन्ति, सर्वकारीय-कर्मचारिण्यः सन्ति, तिसृभ्यः अधिकानां जीवित-सन्तानानां मातरः सन्ति, येषां परिवारस्य वार्षिकी विद्युत्-उपभोगः २४०० यूनिट्-परिमाणात् अधिकः अस्ति, येषां परिवारस्य कश्चन सदस्यः राज्य-सर्वकारे, भारत-सर्वकारे, सार्व-जनिक-उपक्रमे अथवा सर्वकारीय-संस्थायां कार्यरतः अस्ति, चतुश्चक्र-यानस्य स्वामिनः सन्ति अथवा आपराधिक-अभिलेखः अस्ति— ताः महिलाः अस्याः योजनायाः लाभाय पात्राः न भविष्यन्ति।

Hindusthan Samachar / Divya Ranjan