Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य दतिया-विधानसभा-उपनिर्वाचनस्य सर्वाः सिद्धताः सम्पन्नाः सन्ति। अत्र ३० जुलाई-दिने मतदानं भविष्यति, यस्मिन् २ लक्षं २० सहस्रं ३४४ मतदातारः एकविंशति-अभ्यर्थिनां भाग्य-निर्णयं करिष्यन्ति। ईवीएम-यन्त्रेषु अभ्यर्थिनां नामभिः सह नोटा विकल्पोऽपि उपलब्धो भविष्यति। अगस्तमासस्य ३ दिनाङ्के मतगणना भविष्यति, तस्मिन्नेव दिने परिणामाः अपि घोषिताः भविष्यन्ति।
दतिया-विधानसभा-उपनिर्वाचनस्य प्रचार-अभियानस्य अद्य मङ्गलवासरे अन्तिमः दिवसः अस्ति। सायं पञ्चवादनात् अनन्तरं निर्वाचन-प्रचारः स्थगितः भविष्यति। ततः परं केवलम् अभ्यर्थिनः तथा तेषां स्थानीय-कार्यकर्तारः एव गृहं गृहं गत्वा मतदातृभिः सह सम्पर्कं कर्तुं शक्नुवन्ति। प्रचारस्य समाप्तेः पूर्वं सर्वे प्रमुख-राजनैतिकपक्षा: स्वसमर्थकानां मतदातॄणां च मध्ये अन्तिमवारं स्वशक्तेः प्रदर्शनाय प्रयत्नशीलाः सन्ति।
जनपद-निर्वाचन-कार्यालयस्य अनुसारं दतिया-विधानसभा-क्षेत्रे कुलम् २,२०,३४४ मतदातारः सन्ति। तेषु १,१६,०८८ पुरुष-मतदातारः, १,०४,२४६ महिला-मतदातारः, अपरं च १० अन्ये मतदातारः सन्ति। एतेषां अतिरिक्तं १,३७२ दिव्याङ्ग-मतदातारः, ८० वर्षेभ्यः अधिक-वयस्काः १,२३७ मतदातारः, तथा ४४३ सेवा-मतदातारः अपि सन्ति। एते सर्वे ३० जुलाई-दिने ईवीएम-यन्त्रेषु सूचनाङ्कं निपीड्य २१ अभ्यर्थिनां भाग्यं निश्चितं करिष्यन्ति।
भारतीयजनतापक्षेण निर्वाचन-प्रचारे दतिया-क्षेत्रस्य विकासः प्रमुख-विषयरूपेण स्वीकृतः। पक्षेन आरोपः कृतः यत् गत-अर्धत्रिवर्षकालात् क्षेत्रे विकासकार्याणि स्थगितानि सन्ति, एतस्मिन् विषये कांग्रेस-दलम् आलोचितम्। पक्षस्य नेतारः मतदातृभ्यः उक्तवन्तः यत् पक्षस्य अभ्यर्थिनः विजये सति स्थगितानि विकासकार्याणि पुनः सम्पन्नानि भविष्यन्ति। प्रचार-अभियाने सर्वकारस्य कार्याणि दतिया-क्षेत्रस्य विकासश्च जनानां पुरतः प्रस्तुतौ अभवताम्।
अपरतः कांग्रेस-दलेन निर्वाचन-प्रचारे भारतीयजनतापक्षस्य सम्भावित-प्रत्याशी पूर्वगृहमन्त्री नरोत्तम-मिश्रः लक्ष्यीकृतः। तस्य कार्यकाले दतिया-क्षेत्रे विधि-व्यवस्थायाः स्थितिं तथाकथित-दस्यूतां च प्रति पक्ष: निरन्तरं प्रश्नान् उत्थापितवान्। नरोत्तम-मिश्रस्य निर्वाचन-पत्रस्य निरसनमपि कांग्रेस-दलेन निर्वाचन-विषयरूपेण प्रस्तुतं कृत्वा भारतीय-जनतापक्षः लक्ष्यीकृतः।
दतिया-उपनिर्वाचने भारतीयजनतापक्षः कांग्रेस-दलश्च उभौ अपि चत्वारिंशत्-चत्वारिंशत् प्रमुखान् प्रचारकान् नियुक्तवन्तौ। भारतीयजनतापक्षस्य पक्षतः प्रदेशाध्यक्षः हेमन्त-खण्डेलवालः निरन्तरं प्रचारे सक्रियः आसीत्। मुख्यमन्त्री डॉ. मोहन-यादवः अपि सभाः जनसभाश्च सम्बोध्य मतदातृभ्यः पक्षस्य अभ्यर्थिनः पक्षे मतदानस्य आग्रहं कृतवान्। प्रायः १० तः १५ मन्त्रिणः अपि भिन्न-भिन्न-क्षेत्रेषु जातीय-स्थानीय-समीकरणानां साधनाय नियुक्ताः। ग्वालियर-चम्बल-अञ्चलस्य नेतारः अपि प्रचारकार्ये सक्रियतया संलग्नाः आसन्। कांग्रेस-दलस्य पक्षतः प्रदेशाध्यक्षः जीतू-पटवारी निरन्तरं प्रचारे संलग्नः आसीत्। विपक्ष-नेता उमङ्ग-सिंघारः, हेमन्त-कटारे, जयवर्धन-सिंहः तथा ग्वालियर-चम्बल-प्रदेशस्य अन्ये नेतारः अपि प्रचारकार्ये सक्रियाः आसन्। उभाभ्यां दलाभ्यां जातीय-समीकरणानां साधनार्थं पूर्णशक्त्या प्रयत्नः कृतः।
अद्य मङ्गलवासरे सायं पञ्चवादनानन्तरं प्रचारस्य समाप्तौ बहिः प्रदेशेभ्यः आगताः सर्वे नेतारः दतिया-विधानसभा-क्षेत्रस्य सीमातः बहिः गन्तव्याः भविष्यन्ति। ततः परं केवलम् अभ्यर्थिनः स्थानीय-कार्यकर्तारश्च गृहं गृहं गत्वा मतदातृभिः सह सम्पर्कं करिष्यन्ति। प्रचारस्य समाप्तेः अनन्तरम् अधुना उभयोः पक्षयोः मुख्यं लक्ष्यं मतदान-दिने अधिकाधिकान् मतदातारः मतदान-केन्द्रेषु नेतुमेव भविष्यति।
Hindusthan Samachar / Divya Ranjan