गुरुपूर्णिमा भारतीय संस्कृतेः एकं महत् पर्व : केशव प्रसाद मौर्यः
लखनऊ, 28 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः गुरुपूर्णिमायाः पावने पुण्ये च अवसरे देशप्रदेशवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। स्वस्य शुभकामनासन्देशे सः उक्तवान् यत् गुरुपूर्णिमा भारतीयसंस्कृतेः सनात
उप मुख्यमंत्री केशव प्रसाद मौर्य


लखनऊ, 28 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य उपमुख्यमन्त्री केशवप्रसादमौर्यः गुरुपूर्णिमायाः पावने पुण्ये च अवसरे देशप्रदेशवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च प्रदत्तवान्। स्वस्य शुभकामनासन्देशे सः उक्तवान् यत् गुरुपूर्णिमा भारतीयसंस्कृतेः सनातनपरम्परायाः ज्ञानसाधनायाश्च महान् उत्सवः अस्ति यः गुरोः शिष्यस्य च पवित्रसम्बन्धस्य गौरवं भारतीयजीवनमूल्यानां दृढीकरणस्य च सन्देशं ददाति।

मौर्यः उक्तवान् यत् गुरुः केवलं शिक्षां प्रदातुं समर्थः जनः न भवति अपितु स्वेन ज्ञानेन अनुभवेण संस्कारैः प्रेरणया च मनुष्यस्य जीवनं नूतनां दिशं प्रददाति। गुरुः एव अज्ञानान्धकारं निवार्य ज्ञानस्य प्रकाशं प्रसारयति तथा च मनुष्यं सत्यस्य कर्तव्यस्य नैतिकतायाः राष्ट्रसेवायाश्च मार्गे चलितुं प्रेरयति। गुरोः सान्निध्यं मनुष्यस्य व्यक्तित्वस्य निर्माणं करोति तं च जीवने सफलतां प्राप्तुं योग्यं करोति।

उपमुख्यमन्त्री उक्तवान् यत् भारतीयसंस्कृतौ गुरुः ईश्वरतुल्यः सम्मानितः अस्ति। अस्माकं शास्त्रेषु गुरुः ब्रह्मविष्णुमहेशानां स्वरूपत्वेन वर्णितः अस्ति। गुरौ श्रद्धा सम्मानः समर्पणभावश्च अस्माकं सांस्कृतिकपरम्परायाः महती शक्तिः अस्ति। गुरुपूर्णिमोत्सवः अस्मान् स्वजीवने ज्ञानमनुशासनं सेवा विनयः सदाचारश्च आत्मसात्कर्तुं प्रेरयति।

सः उक्तवान् यत् अद्यत्वे शिक्षकेभ्यः आचार्येभ्यः आध्यात्मिकगुरुभ्यः मातृपितृभ्यः तथा तेषां सर्वेषां व्यक्तीनां प्रति कृतज्ञताया अभिव्यक्तिः आवश्यकी येषां मार्गदर्शनेन समाजस्य राष्ट्रस्य च निर्माणे महत्त्वपूर्णं योगदानं कृतम्। गुरोः आशीर्वादः एव समाजं सशक्तं सुशिक्षितं सुसंस्कृतम् आत्मनिर्भरं च निर्मातुं महती शक्तिः अस्ति।

मौर्यः उक्तवान् यत् ज्ञानस्य प्रज्ञायाश्च भारतीयसमाजे सदा सर्वोच्चं स्थानं प्राप्तम् अस्ति। गुरोः शिक्षा मनुष्यं केवलं सफलं न करोति अपितु उत्तरदायिनं नागरिकं राष्ट्रहिताय समर्पितं व्यक्तित्वं च निर्माति।

उपमुख्यमन्त्री भगवान् वेदव्यासं समग्रां गुरुपरम्परां च स्मृत्वा प्रार्थितवान् यत् गुरूणाम् आशीर्वादः देशं उत्तरप्रदेशं च निरन्तरं विकाससमृद्धिशान्तीनां नूतनशिखराणां च प्रति अग्रसरं करोतु। सः सर्वेषां नागरिकाणां सुखसमृद्धेः उत्तमस्वास्थ्यस्य उज्ज्वलभविष्यस्य च मङ्गलकामनाः कृत्वा पुनः गुरुपूर्णिमायाः हार्दिकाः शुभकामनाः प्रदत्तवान्।

Hindusthan Samachar / Dheeraj Maithani