Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, 28 जुलाईमासः (हि.स.)।
विश्वप्रकृतिसंरक्षणदिवसस्य अवसरे ओडिशाप्रदेशस्य राज्यपालः डाक्टर हरिबाबूकंभमपति राज्यवासिनः प्रकृतेः संरक्षणसंवर्धनयोः प्रति स्वप्रतिबद्धतां पुनः सुदृढां कर्तुम् आहूतवान्।
स्वसन्देशे राज्यपालः ओडिशाप्रदेशस्य समृद्धां प्राकृतिकविरासतां सघनवनानि स्वच्छसमुद्रतटानि समृद्धां जैवविविधतां विविधपारिस्थितिकतन्त्राणि च राज्यस्य महान्तमासु शक्तिषु अन्यतमाम् इति उक्तवान्। तेन उक्तं यत् अस्याः अमूल्यविरासतायाः संरक्षणार्थं सामूहिकउत्तरदायित्वस्य वहनं सततविकासोपायानां स्वीकरणं च अत्यन्तम् आवश्यकम् अस्ति। राज्यपालः सर्वान् सहकार्येण हरितस्य स्वस्थस्य च भविष्यस्य निर्माणार्थं सक्रिययोगदानं दातुम् आहूतवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani