गुरु पूर्णिमायां भाजपादलस्य प्रदेशव्यापिनि मंदिरसंपर्काभियाने सतां भविष्यति सम्मानः
जयपुरम्, 28 जुलाईमासः (हि.स.)। गुरुपूर्णिमायाः अवसरे भारतीयजनतापक्षः बुधवासरे सम्पूर्णप्रदेशे सांस्कृतिकान् धार्मिकान् साङ्गठनिकान् च अभियानान् आयोजयिष्यति। अस्य अभियानस्य अन्तर्गतं मुख्यमन्त्री मन्त्रिणः सांसदाः विधायकाः जनप्रतिनिधयः भारतीयजनतापक
गुरु पूर्णिमा पर भाजपा का प्रदेशव्यापी मंदिर संपर्क अभियान में संतों का होगा सम्मान


जयपुरम्, 28 जुलाईमासः (हि.स.)।

गुरुपूर्णिमायाः अवसरे भारतीयजनतापक्षः बुधवासरे सम्पूर्णप्रदेशे सांस्कृतिकान् धार्मिकान् साङ्गठनिकान् च अभियानान् आयोजयिष्यति। अस्य अभियानस्य अन्तर्गतं मुख्यमन्त्री मन्त्रिणः सांसदाः विधायकाः जनप्रतिनिधयः भारतीयजनतापक्षस्य पदाधिकरिणः कार्यकर्तारश्च विभिन्नेषु मन्दिरेषु पूजार्चनां करिष्यन्ति तथा च सन्तमहन्तान् पूजारिणः धार्मिकगुरून् च सम्मानयिष्यन्ति तेषाम् आशीर्वादं च प्राप्स्यन्ति।

भारतीयजनतापक्षस्य प्रदेशमहामन्त्री श्रवणसिंहबगडी अवदत् यत् मुख्यमन्त्री भजनलालशर्मा डीगजनपदस्य पूछरीस्थेषु विभिन्नमन्दिरेषु पूजार्चनां करिष्यति। प्रदेशाध्यक्षः मदनराठौडः देहल्याः कनॉटप्लेसस्थे प्राचीनहनुमन्मन्दिरे दर्शनं करिष्यति। प्रदेशसङ्गठनमहामन्त्री अजेयकुमारः देहलीमार्गस्थिते खोलेहनुमन्मन्दिरे सन्तानां सम्मानं करिष्यति। स्वयं बगडी चान्दीटकसालस्थे कालेहनुमन्मन्दिरे पूजार्चनां कृत्वा महन्तं गोपालदासमहाराजं सम्मानयिष्यति।

सः अवदत् यत् विधानसभाध्यक्षः वासुदेवदेवनानी अमरापुरदरबारे उपमुख्यमन्त्री दीयाकुमारी हातोजधाम्नि दक्षिणमुखीबालाजीमन्दिरे राज्यवित्तायोगस्य अध्यक्षः अरुणचतुर्वेदी गोविन्ददेवजीमन्दिरे पूर्वप्रदेशाध्यक्षः अशोकपरनामी मोतीडूंगरीगणेशमन्दिरे पूर्वप्रतिपक्षनेता राजेन्द्रराठौडः नन्दपुरीहनुमन्मन्दिरे तथा प्रदेशमहामन्त्री मिथलेशगौतमः प्रतापनगरस्थिते हनुमन्मन्दिरे पूजार्चनां करिष्यन्ति।

बगडी अवदत् यत् प्रदेशस्य सर्वेषु जनपदेषु मण्डलेषु च भारतीयजनतापक्षस्य पदाधिकरिणः जनप्रतिनिधयश्च प्रमुखमन्दिरेषु धार्मिककार्यक्रमेषु सहभागिनः भविष्यन्ति। अनेकेषु स्थानेषु दीपोत्सवाः धार्मिकानुष्ठानानि सामाजिकसमरसतासम्बद्धकार्यक्रमाश्च आयोजयिष्यन्ते।

सः अवदत् यत् गुरुपूर्णिमायाः अवसरे वाराणस्याः विशेषा कलशयात्रा अपि निष्कासिता भविष्यति। उपमुख्यमन्त्री प्रेमचन्दबैरवा प्रदेशमहामन्त्री भूपेन्द्रसैनी च नेतृत्वं कृत्वा भारतीयजनतापक्षस्य प्रतिनिधिमण्डलं वाराणस्याः पवित्रकलशं आनयिष्यति। राजस्थानस्य सीमायां कलशस्य भव्यस्वागतं भविष्यति ततः रथेन तं जयपुरनगरं नीयते। राजधानीनगरे अपि कलशयात्रायाः स्वागतार्थं विशेषकार्यक्रमाः आयोजयिष्यन्ते।

बगडी अवदत् यत् एतदभियानं केवलं धार्मिककार्यक्रमः नास्ति अपितु सन्तपरम्परायाः सम्मानस्य सामाजिकसमरसतायाः समाजस्य विभिन्नवर्गैः सह संवादस्य च माध्यमम् अस्ति। अनेन अभियानद्वारा पक्षः धार्मिकसामाजिकमूल्यानां सुदृढीकरणस्य सन्देशं प्रदास्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani