आईसीजी-बले महिलाभ्यः समानावसरप्रदानाय ‘जेंडर-न्यूट्रल-फ्रेमवर्क’ आरब्धम्
– द्वयोः महत्त्वपूर्णयोः नीतिसुधारयोः उद्घाटनं रक्षामन्त्रिणा राजनाथसिंहेन कृतम् नवदेहली, २८ जुलाईमासः (हि.स.)। भारतीय-तटरक्षकबले द्वे महत्त्वपूर्णे नीतिसुधारे कृते, ययोः उद्घाटनं मङ्गलवासरे नवदेहल्यां कर्तव्य-भवन–२ इत्यत्र रक्षामन्त्रिणा राजनाथसि
रक्षा मंत्री राजनाथ सिंह


– द्वयोः महत्त्वपूर्णयोः नीतिसुधारयोः उद्घाटनं रक्षामन्त्रिणा राजनाथसिंहेन कृतम्

नवदेहली, २८ जुलाईमासः (हि.स.)। भारतीय-तटरक्षकबले द्वे महत्त्वपूर्णे नीतिसुधारे कृते, ययोः उद्घाटनं मङ्गलवासरे नवदेहल्यां कर्तव्य-भवन–२ इत्यत्र रक्षामन्त्रिणा राजनाथसिंहेन कृतम्। एतयोः उद्देश्यम् अधिकारीणां नियुक्तौ सेवाशर्तेषु च लैङ्गिकसमतायाः संवर्धनं तथा कर्तव्यपालनकाले समुद्रे लुप्तानां कर्मकराणां परिवारेभ्यः अनुग्रहधन-प्रदानस्य प्रशासनिकप्रक्रियायाः सरली-करणम् अस्ति। रक्षामन्त्री अवदत् यत् नारी-शक्ति-सशक्तीकरणं प्रति स्वप्रतिबद्धतामनुसृत्य आईसीजी-बले महिला-अधिकारिणां प्रवेशे, प्रशिक्षणे स्थायिनियुक्तौ च समानावसरसुनिश्चित्यर्थं ‘जेंडर-न्यूट्रल-फ्रेमवर्क’ आरब्धम्।

सः पुनरवदत् यत् तटरक्षकबलस्य कर्मकराणां सर्वाङ्गीणकल्याणाय कर्तव्यपालनकाले समुद्रे लुप्तानां सैनिकानां निकटपरिजनेभ्यः अनुग्रह-धनप्रदानस्य तथा साहाय्यप्रक्रियायाः सरलीकरणं शीघ्रीकरणं च कृतम्। राष्ट्रं स्वसमुद्र-सीमानां रक्षणे निरतानां वीराणां परिवाराणां सह दृढतया तिष्ठति। रक्षामन्त्री गतपञ्चाशद्वर्षेषु आईसीजी-बलस्य असाधारणसेवायाः प्रशंसां कृत्वा विश्वासं व्यक्तवान् यत् एताः दूरदर्शिन्यः नीतयः २०२७ तमे वर्षे स्वर्णजयन्तीमभिमुखं गच्छतः बलस्य मनोबलं प्रचालनक्षमतां च अधिकं सुदृढं करिष्यन्ति।

जेंडर-न्यूट्रल-प्रवेशः तथा व्यवसायोन्नतिः— प्रथमः नीतिनिर्देशः

अयं नीतिनिर्देशः आईसीजी-अधिकारीणां नियुक्त्यर्थं जेंडर-न्यूट्रल-व्यवस्थां प्रवर्तयन् महिलाकेन्द्रितं व्यापकदृष्टिकोणं स्थापयति। अस्य प्रमुखविशेषतासु महिला-अभ्यर्थिनः पुरुषसमकक्षवत् अल्पकालिक-सेवानियुक्तिषु स्थायि-नियुक्तिषु च समावेशः अन्तर्भवति। एसएसए-विकल्पः पुरुषाभ्यर्थिभ्यः अपि उद्घाटितः। एषा नीति प्रारम्भिक-प्रशिक्षणकालादेव समानव्यव-सायोन्नत्यवसरान् सुनिश्चितान् करोति। विद्यमानाः महिला-पीए-अधिकारिण्यः अपि पात्रताशर्तपूर्त्यनन्तरं उच्चपदेषु पदोन्नत्यर्थं विचारिताः भविष्यन्ति। एसएसए-सेवायां वर्तमानाः महिला-अधिकारिण्यः अपि निर्धारितशर्त-पूर्त्यनन्तरं स्वसेवां पीए-रूपे परिवर्तयितुं विकल्पं प्राप्स्यन्ति। एषः प्रगतिशीलः निर्णयः नारी-शक्ति-सशक्तीकरणे तथा राष्ट्रस्य सामुद्रिक-सुरक्षातन्त्रे समानावसर-प्रदाने सर्वकारस्य दृढप्रतिबद्धतां प्रकाशयति।

समुद्रे लुप्तकर्मकराणां कृते अनुग्रहधन-प्रदानप्रक्रिया सरलीकृता

द्वितीयः नीतिसुधारः तेषां कर्मकराणां परिजनेभ्यः राहतं प्रशासनिकसुगमतां च प्रदास्यति, ये दुर्भाग्यवशात् कर्तव्यपालन-काले समुद्रे लुप्ताः भवन्ति। अस्य नीतिसुधारस्य प्रमुखविशेषता अस्ति यत् कर्तव्यपालनकाले समुद्रे लुप्ताः आईसीजी-कर्मकराः अनुग्रहधनप्रदानार्थं ‘मृताः’ इति परिगण्यन्ते। अनेन सुधारेण परिजनेभ्यः अनुग्रहधनस्य अन्तिमलाभानां च वितरणप्रक्रिया अत्यन्तं सरला शीघ्रा च भविष्यति। अनेन उपायेन सुनिश्चितं भविष्यति यत् मानसिकवेदनायाः काले वीरकर्मकराणां परिवाराः दीर्घकालिक-प्रशासनिकविलम्बं न अनुभवेयुः।

Hindusthan Samachar / Divya Ranjan