Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जुलाईमासः (हि.स.)। वैश्विक-विपण्यां भारतीय-क्रीडनकाणां प्रभावः तीव्रतया वर्धमानः अस्ति। विगतसप्तवर्षेषु गृह-निर्माणस्य तथा सर्वकारस्य प्रोत्साहन-नीतिनां प्रभावेण भारतस्य क्रीडनक-उद्योगस्य स्वरूपं पूर्णतया परिवर्तितम् अस्ति। भारतस्य क्रीडनक-निर्याते ८९.१ प्रतिशतं महती वृद्धिः अभवत्।
केन्द्रीय-वाणिज्य-उद्योग-राज्यमन्त्री जितिनप्रसादः मङ्गलवासरे लोकसभायां एकस्य प्रश्नस्य लिखितोत्तरे एतस्याः सूचनां दत्तवान्। सः अवदत् यत् भारतं क्रीडनकानाम् आयातकर्तृ-देशात् उन्नीय शुद्ध-निर्यातक-देशः अभवत्। अमेरिका, ब्रिटेन, नीदरलैण्ड्, जर्मनी इत्यादिषु विकसितदेशेषु भारतीय-क्रीडनकाणां निर्यातः क्रियते।
ट्रेडस्टेट्विवरणानुसारं भारतस्य क्रीडनक-आयाते ३७.५ प्रतिशतं न्यूनता अभवत्, यदा तु क्रीडनक-निर्याते ८९.१ प्रतिशतस्य वृद्धिः अभिलेखिता। वित्तवर्षे २०१८-१९ इत्यस्य तुलनया वित्तवर्षे २०२५-२६ मध्ये भारतात् क्रीडनकानां निर्याते ८९.१ प्रतिशतस्य महती वृद्धिः अभवत्। विदेशीय-क्रीडनकेषु निर्भरता अपि न्यूनीभूता अस्ति तथा च आयाते ३७.५ प्रतिशतस्य महती न्यूनता दृष्टा।
मन्त्रालयेन उक्तं यत् ‘टॉय एसोसिएशन ऑफ इण्डिया’ द्वारा नवदेहलीस्थिते भारत-मण्डपमे ४ जुलाईतः ७ जुलाईपर्यन्तं १७ तमस्य ‘टॉय बिज् इन्टरनेशनल बी२बी’ प्रदर्शनीस्य आयोजनं कृतम्। अस्यां प्रदर्शिन्यां ४०० भारतीय-क्रीडनक-ब्राण्ड-संस्थाः, ४० देशेभ्यः १०० अन्ताराष्ट्रिय-क्रेतारः तथा च प्रायः ३०,००० व्यावसायिक-आगन्तुकाः भागं गृहीत-वन्तः।
एषा प्रदर्शिनी निर्मातॄन् थोक-विक्रेतृभिः, खुदरा-विक्रेतृभिः, वितरकैः, संस्थागत-क्रेतृभिः तथा ई-वाणिज्य-मञ्चैः सह संयोजयितुं महत्त्वपूर्णं मञ्चं प्रदत्तवती।
Hindusthan Samachar / Divya Ranjan