जनसांख्यिकीय-लाभांशः कुत्रचित् आपदायां मा परिणमेत् - अखिलेश-यादवः
नवदेहली, २८ जुलाईमासः (हि.स.)। समाजवादी-पक्षस्य नेता अखिलेश-यादवः मङ्गलवासरे लोकसभायां प्रश्नपत्र-प्रस्रवणेन सम्बद्धस्य विषयस्य निवारणार्थम् अधिकं कठोरं विधिं कर्तुं प्रस्तूते लोक-परीक्षा संशोधन-विधेयके, २०२६ चर्चायां भागम् अगृह्णात्। सः अवदत् यत्
अखिलेश यादव संसद में


नवदेहली, २८ जुलाईमासः (हि.स.)। समाजवादी-पक्षस्य नेता अखिलेश-यादवः मङ्गलवासरे लोकसभायां प्रश्नपत्र-प्रस्रवणेन सम्बद्धस्य विषयस्य निवारणार्थम् अधिकं कठोरं विधिं कर्तुं प्रस्तूते लोक-परीक्षा संशोधन-विधेयके, २०२६ चर्चायां भागम् अगृह्णात्। सः अवदत् यत् सर्वकारेण देशस्य यूनां वचनं श्रोतव्यम्। सर्वकारः स्वयमेव युवानः जनसांख्यिकीय-लाभांशः इति वदति, परन्तु सावधानता अपेक्षिता यत् युववर्गः कुत्रचित् आपदायां मा परिणमेत्।

लोकसभायां लोक-परीक्षा संशोधन-विधेयकस्य, २०२६ चर्चाकाले अखिलेश-यादवः उत्तरप्रदेशे परीक्षा-प्रश्नपत्र-प्रस्रवणस्य, राममन्दिरस्य चढावा-धनस्य चोरी-प्रकरणस्य तथा राज्ये प्राथमिक-विद्यालयानां बन्दीकरणस्य विषयम् उत्थापितवान्। सः अवदत् यत् उत्तरप्रदेशे विंशत्यधिकानि प्रश्नपत्र-प्रस्रवण-प्रकरणानि अभवन्।

विधेयकस्य विषये अखिलेश-यादवः अवदत् यत् सर्वकारः स्वयमेव निर्मिते विधौ संशोधनं प्रस्तुतवती। एतत् जनानां नेत्रयोः धूलिं क्षेप्तुमिव अस्ति। यदि केवलं विधिना प्रश्नपत्र-प्रस्रवणं निवारयितुं शक्येत, तर्हि एतादृशानि प्रसङ्गानि पुनः पुनः कथं जातानि? तेन आरोपः कृतः यत् सर्वकारेण परीक्षाः आयोजयन्ती एन.टी.ए. संस्था बहिःसंस्थायै समर्पिता।

चर्चाकाले केन्द्रीयमन्त्री किरण-रिजिजू समाजवादी-पक्षस्य नेतारम् अखिलेश-यादवं अपृच्छत्— छात्र-आन्दोलनस्य विषये विधिं निर्मातुं प्रवृत्ताः श्रेयांसः वा, उत छात्र-आन्दोलने आपत्कालम् आरोपयि-तारः श्रेयांसः? अस्य उत्तररूपेण अखिलेश-यादवः व्यङ्ग्येन अवदत् यत् आपत्कालस्य अनन्तरं सत्तापरिवर्तनम् अभवत्।

Hindusthan Samachar / Divya Ranjan