केवलं समितिनिर्माणेन शिक्षा-क्षेत्रे परिवर्तनं न भविष्यति - प्रियङ्का गान्धी
नवदेहली, २८ जुलाईमासः (हि.स.)। कांग्रेस-दलस्य प्रियङ्का गान्धी वाड्रा मङ्गलवासरे अवदत् यत् शिक्षा-क्षेत्रे परिवर्तनार्थं केवलं नूतनानां नूतनानां समितीनां निर्माणेन कार्यं न सिद्ध्यति। राधाकृष्ण-समितिरपि व्यवस्थायाः सुधारार्थं निर्मिता आसीत्, किन्तु
लोकसभा में प्रियंका गांधी


नवदेहली, २८ जुलाईमासः (हि.स.)। कांग्रेस-दलस्य प्रियङ्का गान्धी वाड्रा मङ्गलवासरे अवदत् यत् शिक्षा-क्षेत्रे परिवर्तनार्थं केवलं नूतनानां नूतनानां समितीनां निर्माणेन कार्यं न सिद्ध्यति। राधाकृष्ण-समितिरपि व्यवस्थायाः सुधारार्थं निर्मिता आसीत्, किन्तु अद्यावधि तस्याः एकापि अनुशंसा कार्यान्विता न अभवत्।

प्रियङ्का अवदत् यत् सर्वकारेण प्रयत्नाः कर्तव्याः। संसदः विपक्षं दोषिणं कृत्वा राजनीत्या कार्यं न भविष्यति। ‘जेन-जी’ वर्गस्य विश्वासं पुनः प्राप्तुं चिन्तनस्य दिशायां परिवर्तनम् आवश्यकम् अस्ति। सा अवदत्— “देशस्य युवानः न्यायं याचन्ते, भिक्षां न। ते अत्र सर्वकारं पतयितुं न, अपितु स्वविश्वासस्य रक्षणार्थम् आगताः आसन्।”

प्रियङ्का अवदत् यत् सर्वकारेण शिक्षा-विशेषज्ञान् एकत्र आनेतव्यम्। छात्रान्, अध्यापकान्, सर्वान् हितधारकान् च सह गृहीत्वा अन्येषां विचारधाराणां विशेषज्ञैः सह गम्भीरचर्चां कृत्वा नूतना शिक्षा-व्यवस्था निर्मातव्या। सा अवदत्— “वर्तमानायां राष्ट्रिय-शिक्षा-नीत्यां अष्टौ मासाः परीक्षासु एव व्यतीताः भवन्ति। अध्यापकानां शिक्षणार्थं पर्याप्तः समयः न प्राप्यते।”

प्रियङ्कायाः टिप्पण्याः विषये लोकसभायां कोलाहलः

लोकसभायां अद्य प्रियङ्का गान्धी द्वारा शिक्षामन्त्री प्रह्लाद जोशी विषये कृतायाः टिप्पण्याः कारणेन कोलाहलः अभवत्। जोशी-विषये कृतां तस्याः टिप्पणिं सत्तापक्षस्य सदस्याः प्रथमं ‘प्रमाणितां कुरुत’ इति उक्तवन्तः। तस्य उत्तररूपेण प्रियङ्का गान्धी अवदत् यत् अस्य विषयस्य सम्बन्धे सा वार्तापत्रस्य कर्तनानि उपस्थापयिष्यति।

लोकसभायां प्रश्नपत्र-रिसावसम्बद्धे विधेयके चर्चायाः समये प्रियङ्का गान्धी शिक्षामन्त्री प्रह्लाद:जोशी इत्यस्या विषये आरोपात्मकं वक्तव्यम् अकरोत्। सत्ता-पक्षस्य सदस्याः तां प्रतिषिद्धवन्तः तथा च अवदन् यत् नियमस्य ३५३ इत्यनुसारं सदने कस्यापि आरोपस्य सम्बन्धे सदस्येन पूर्वमेव सूचना दातव्या भवति।

प्रह्लाद: जोशी अवदत् यत् अस्मिन् विषये तस्मै कापि सूचना न प्रदत्ता अस्ति। सः इच्छति यत् प्रियङ्का गान्धी स्वस्य कथनं प्रमाणयतु अथवा तत् कार्यवाहीतः निष्कास्यताम्। प्रियङ्कायाः टिप्पणी प्रह्लाद: जोशी इत्यस्य कथित-वक्तव्य-सम्बन्धिनी आसीत्।

Hindusthan Samachar / Divya Ranjan