शिक्षाव्यवस्थायाः विफलतां प्रच्छादयितुं संशोधनविधेयकस्य प्रयासः - गौरव-गोगोई
नवदेहली, २८ जुलाईमास: (हि.स.)। लोकसभायां मङ्गलवासरे प्रश्नपत्र-प्रस्रवणस्य दोषिणां विरुद्धं कठोरकार्यवाह्याः सम्बन्धिनः विधेयकस्य विषये विपक्षस्य पक्षतः चर्चायाः आरम्भं कांग्रेस-दलस्य नेता गौरव-गोगोई अकरोत्। सांसदः गौरव-गोगोई अवदत् यत् सर्वकारः शिक
गोगोई भाषण देते हुए


नवदेहली, २८ जुलाईमास: (हि.स.)। लोकसभायां मङ्गलवासरे प्रश्नपत्र-प्रस्रवणस्य दोषिणां विरुद्धं कठोरकार्यवाह्याः सम्बन्धिनः विधेयकस्य विषये विपक्षस्य पक्षतः चर्चायाः आरम्भं कांग्रेस-दलस्य नेता गौरव-गोगोई अकरोत्। सांसदः गौरव-गोगोई अवदत् यत् सर्वकारः शिक्षाव्यवस्थायां वास्तविक-सुधारं कर्तुं विहाय केवलं विधिषु संशोधनं करोति। अतः विपक्षः विद्यार्थिनां मागानां तथा निष्पक्ष-परीक्षाव्यवस्थायाः समर्थनार्थं दृढतया तिष्ठति।

लोकसभायां लोकपरीक्षा संशोधनविधेयकस्य, २०२६ विषये चर्चायां सः अवदत् यत् सर्वकारेण नूतनानां विधानानां निर्माणस्य स्थाने परीक्षाप्रणाल्याः दुर्बलताः दूरीकर्तव्याः। गोगोई राष्ट्रीय-परीक्षा-अभिकरणस्य कार्यप्रणाल्याः विषये अपि प्रश्नान् उत्थापितवान्। तस्य मते परीक्षासंस्थासु उत्तरदायित्वस्य सुनिश्चितीकरणं विना सुधारः सम्भवो नास्ति।

गोगोई अवदत् यत् परीक्षासु अनियमितताभिः असफलताभिश्च विद्यार्थिषु मानसिक-तनावः वर्धते। सर्वकारेण केवलं दण्डवृद्धिं न कृत्वा, येन परिस्थितयः सत्यनिष्ठ-विद्यार्थिनां भविष्यं प्रभावितवन्ति, ताः समूलं निवारणीयाः।

तेन उक्तं यत् प्रश्नपत्र-दस्यव:, परीक्षा-केन्द्राणि, मुद्रणालयाः, प्रशिक्षण-संस्थानानि, बाह्य-स्रोत-व्यवस्था तथा परीक्षा-सञ्चालने विद्यमानाः दोषाः व्यापकतया संशोधनीयाः। पूर्वं गठितायाः उच्चस्तरीय-समित्याः अनुशंसानां अपेक्षितं फलमपि न प्राप्तम्, पुनश्च प्रश्नपत्र-प्रस्रवणस्य घटनाः अभवन्।

सः अवदत् यत् वर्षे २०२४ अपि सर्वकारेण एतादृशमेव विधानम् आनीय उक्तम् आसीत् यत् अनेन प्रश्नपत्र-प्रस्रवणं पूर्णतया निरुद्धं भविष्यति; किन्तु द्विवर्षाभ्यन्तरे पुनः महदाकारस्य परीक्षा-वंचना: प्रकाशम् आगताः। तस्य मते अनेन स्पष्टं भवति यत् केवलं दण्डवृद्ध्या समस्यायाः समाधानं न भविष्यति।

तस्य मते शिक्षाव्यवस्थायाः उद्देश्यं युवभ्यः अवसरप्रदानमेव भवितुमर्हति। कस्यापि विद्यार्थिन: कृते मार्गे अवतीर्य आन्दोलनं कर्तुं न सुलभं भवति; तादृशं तदा एव भवति यदा तस्य अन्तःकरणे प्रगाढः असन्तोषः निराशा च भवति। सः आरोपम् अकरोत् यत् प्रदर्शनकाले आरक्षकदलेन अनावश्यक-बलप्रयोगः कृतः।

गोगोई अस्य सम्पूर्णस्य विषयस्य विषये सर्वकारात्, विशेषतः गृहमन्त्रालयात्, सदसि स्पष्टमुत्तरं याचितवान् यत् प्रदर्शनकारिणां विरुद्धं कठोरकार्यवाह्याः आदेशाः कस्मात् स्तरात् प्रदत्ताः।

Hindusthan Samachar / Divya Ranjan