Enter your Email Address to subscribe to our newsletters


– भोपालनगरे महिला-एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-२०२६ आयोजनार्थं १८.७४ कोटिरूप्यकाणां सैद्धान्तिकी स्वीकृतिः
भोपालनगरम्, २८ जुलाईमासः (हि.स.)। मध्यप्रदेशे मुख्यमन्त्रिणः डॉ. मोहन-यादवस्य अध्यक्षतायां मङ्गलवासरे मन्त्रालये मन्त्रिमण्डलस्य सभा अभवत्। अस्यां सभायां राज्यस्य सर्वाङ्गीण-विकासाय, आधारभूतसंरचनायाः विस्ता-राय, जनकल्याणस्य च गतिवर्धनाय प्रायः २,४८० कोटिरूप्यकाणां वित्तीयस्वीकृतिः प्रदत्ता। सभायां क्रीडा-क्रियाकलापैः, सिञ्चन-योजनाभिः, महिला-सशक्ती-करणेन, सूचना-प्रौद्योगिक्या, कृषक-कल्याणेन च सम्बद्धानां बहूनां महत्त्वपूर्ण-निर्णयानां अनुमोदनम् अभवत्।
लोकनिर्माणमन्त्री राकेशसिंहः अवदत् यत् मन्त्रिपरिषदा गृहीतेषु प्रमुखनिर्णयेषु २०२६ तमवर्षस्य अक्टोबर-मासे भोपाले ‘महिला-एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी’ इत्यस्य भव्याय आयोजनाय १८ कोटि ७४ लक्षरूप्यकाणां सैद्धान्तिकी स्वीकृतिः प्रदत्ता। अनेन राज्यस्य क्रीडा-अधोसंरचनायाः पर्यटनस्य च वैश्विकं परिचयं वर्धिष्यते। कृषिक्षेत्रस्य सुदृढीकरणार्थं रिहन्द-मल्हारगढ-सिञ्चन-परियोजनयोः तथा कृषकेभ्यः समर्थनमूल्ये बोनस-प्रदान-योजनायाः निरन्तरतायै अपि अनुमोदनं प्रदत्तम्।
सः अवदत् यत् राज्यं प्रौद्योगिकीदृष्ट्या अग्रणीकर्तुं आईआईएसईआर-भोपाले ड्रोन-प्रौद्योगिकी-आधारितस्य ‘सेण्टर-ऑफ-एक्सीलेन्स’ स्थापने तथा सूचना-प्रौद्योगिकी-उद्यानानां विकासाय ८५७ कोटिरूप्यकाणां स्वीकृतिः प्रदत्ता। एतेषु निर्णयेषु सूचना-प्रौद्योगिकी-उद्यानानां सञ्चालनस्य २०३१ तमवर्षपर्यन्तं निरन्तरतायाः स्वीकृतिरपि महत्त्वपूर्णा अस्ति। अनेन प्रायः ८,००० युवभ्यः रोजगारस्य अवसरः भविष्यति। ‘मिशन-शक्ति’ अन्तर्गतं महिला-सशक्तीकरणाय १९८ कोटिरूप्यकाणि, कर्मचारी-कल्याण-पेन्शन-योजनाभ्यः ९८२ कोटिरूप्यकाणि, ग्वालियरे विद्युत्सुरक्षा-निरीक्षकालयस्य नूतन-वृत्त-कार्यालयस्य तथा नारायणगढे नव न्यायिकपदानां सृजनस्यापि स्वीकृतिः प्रदत्ता।
अक्टोबर-मासे महिला-एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-२०२६ स्पर्धाया: आयोजनम्
मन्त्री राकेशसिंहः अवदत् यत् २०२६ तमवर्षस्य अक्टोबर-मासे भोपालस्य बरखेडा-नाथू-स्थिते अन्तरराष्ट्रीय-क्रीडासङ्कुले महिला-एशियाई-हॉकी-चैम्पियन्स-ट्रॉफी-२०२६ आयोजिता भविष्यति। मन्त्रिपरिषदा अस्य आयोजनस्य सम्भावितव्ययाय १८ कोटि ७४ लक्षरूप्यकाणां सैद्धान्तिकी स्वीकृतिः प्रदत्ता।
तेन उक्तं यत् हॉकी-इण्डिया इत्यस्मै अन्ताराष्ट्रिय-हॉकी-महासङ्घेन देशे हॉकी-क्रीडायाः सञ्चालनाय, प्रोत्साहनाय, अन्ताराष्ट्रिय-राष्ट्रीय-प्रतियोगितानाम् आयोजनाय च अधिकारः प्रदत्तः। एषा प्रतियोगिता २०१० तमवर्षात् आरभ्य द्विवर्षान्तराले नियमितरूपेण आयोज्यते। अस्याः प्रतियोगितायाः मुख्योद्देश्यम् एशियादेशीय-महिला-हॉकी-दलानां प्रतिभायाः वैश्विकस्तरे प्रदर्शनम् अस्ति। अस्मिन् स्पर्धायां भारतम्, चीनदेशः, जापानदेशः, मलेशियादेशः, दक्षिण-कोरियादेशः, थाईलैण्डदेशश्च इति षट् प्रमुखाः महिला-दलाः, प्रायः २०० क्रीडकाः तथा सहयोगिकर्मचारिणः सहभागीन: भविष्यन्ति।
एषा अन्ताराष्ट्रिय-प्रतियोगिता हॉकी-इण्डिया तथा क्रीडा-युवा-कल्याण-विभागेन संयुक्तरूपेण आयोजिता भविष्यति। अनुबन्धानुसारं ‘प्रेजेण्टिङ्ग-पार्टनर’ अधिकारार्थं हॉकी-इण्डियायै ११ कोटिरूप्यकाणि प्रदास्यन्ते। अन्यावश्यक-व्यवस्थाभ्यः विभागेन ७ कोटि ७४ लक्षरूप्यकाणां व्ययः भविष्यति। एवं सम्पूर्णस्य आयोजनस्य व्ययः प्रायः १८ कोटि ७४ लक्षरूप्यकाणि भविष्यति।
बरखेडा-नाथू-स्थितम् अन्ताराष्ट्रिय-क्रीडासङ्कुलं नूतन-आधुनिक-प्रौद्योगिकीभिः सुसज्जीकृत्य अन्ताराष्ट्रिय-स्तरीय-प्रतियोगितानाम् आयोजनाय सिद्धीकृतम् अस्ति। अस्याः एशियाई-प्रतियोगितायाः आयोजनात् मध्यप्रदेशस्य क्रीडा-अधोसंरचनायाः वैश्विकस्तरे प्रचारः भविष्यति। अनेन प्रदेशस्य हॉकी-क्रीडकाणां मनोबलं वर्धिष्यते, विदेशीय-दलानां भोपाल-आगमनेन पर्यटनस्यापि संवर्धनं भविष्यति।
रिहन्द-सूक्ष्मसिञ्चन-परियोजनायै १११ कोटिरूप्यकाणां स्वीकृतिः
मन्त्री राकेशसिंहः अवदत् यत् मन्त्रिपरिषदा सिङ्गरौली-जनपदस्य रिहन्द-सूक्ष्मसिञ्चन-परियोजनायाः षोडश-केन्द्रीय-वित्त-आयोगस्य अवधौ (१ अप्रैल २०२६–३१ मार्च २०३१) निरन्तर-सञ्चालनाय १११ कोटि ४ लक्षरूप्यकाणां स्वीकृतिः प्रदत्ता। अस्याः परियोजनायाः उद्देश्यं गोविन्दवल्लभ-पन्त-सागर-जलाशयात् सञ्चितं जलम् उद्धृत्य सिङ्गरौली, माडा, वैढन, जावद-तहसीलेषु स्थितेषु ११९ ग्रामेषु ३८,००० हेक्टेयर क्षेत्रे सूक्ष्मसिञ्चनव्यवस्थया जलप्रदानम् अस्ति।
मल्हारगढ-दाबयुक्त-बृहदुद्वहन-सिञ्चन-परियोजनायै १८४ कोटिरूप्यकाणां स्वीकृतिः
सः अवदत् यत् मन्त्रिपरिषदा मन्दसौर-जनपदस्य मल्हारगढ-दाबयुक्त-बृहदुद्वहन-सिञ्चन-परियोजनायाः षोडश-केन्द्रीय-वित्त-आयोगस्य अवधौ (१ अप्रैल २०२६–३१ मार्च २०३१) निरन्तर-सञ्चालनाय १८४ कोटि २० लक्षरूप्यकाणां स्वीकृतिः प्रदत्ता। एषा उद्वहन-सिञ्चन-परियोजना अस्ति, यस्याः मुख्योद्देश्यं मन्दसौर-जनपदे ४६,५०० हेक्टेयर क्षेत्रे सिञ्चन-क्षमतायाः विकासः।
Hindusthan Samachar / Divya Ranjan