Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री, मंत्री, मुख्य सचिवो वरिष्ठाधिकारी नियमित रूपतः करिष्यते समतलीयभ्रमणम्
भोपालम्, 28 जुलाईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः मङ्गलवासरे उक्तवान् यत् प्रदेशस्य जनतया सह प्रत्यक्षसंवादस्य सुदृढसम्बन्धस्य च स्थापनार्थं समस्यायाः शतप्रतिशतनिराकरणस्य सुनिश्चित्यर्थं च मुख्यमन्त्री जनविश्वासाभियानम् २०२६ आगामि सप्तमागस्तदिनात् प्रारभ्यते।
तेन उक्तं यत् आगामि अष्टमजनवरी २०२७ पर्यन्तं सञ्चाल्यमाने अस्मिन् अभियाने मन्त्रिणः मुख्यसचिवः वरिष्ठाधिकारिणः जनप्रतिनिधयश्च नियमितरूपेण क्षेत्रभ्रमणं कृत्वा सामान्यजनैः सह संवादं करिष्यन्ति समस्याः शीघ्रं समाधास्यन्ति तथा शासकीययोजनानां सेवासु च भूमिस्तरीयक्रियान्वयनस्य प्रत्यक्षमूल्याङ्कनं करिष्यन्ति।
सुशासनस्य अधिकप्रभावीकरणाय आरब्धा पहल
तेन उक्तं यत् मुख्यमन्त्री जनविश्वासाभियानस्य माध्यमेन प्रशासनिकव्यवस्था अधिका संवेदनशीला पारदर्शिनी उत्तरदायिनी च भविष्यति। क्षेत्रस्तरात् प्राप्तप्रतिपुष्टेः आधारेण प्रशासनस्य पर्यवेक्षणतन्त्रं अधिकं सुदृढं क्रियते। अस्य अभियानस्य उद्देश्यं केवलं शिकायतानां निराकरणं नास्ति अपितु शासनस्य जनतायाश्च मध्ये विश्वासं सहभागितां च सुदृढीकृत्य सुशासनस्य अवधारणां व्यवहारे स्थापयितुमस्ति।
प्रत्येकस्मिन् शुक्रवासरे प्रशासनं जनमध्ये भविष्यति
जनसम्पर्काधिकारिणी जूहीश्रीवास्तवा अवदत् यत् अभियानस्य अन्तर्गतं प्रत्येकसप्ताहे शुक्रवासरे प्रदेशव्यापिरूपेण विशेषक्षेत्रभ्रमणं भविष्यति। अस्मिन् दिने अपरिहार्यपरिस्थितीन् विहाय कस्मिन्नपि स्तरे नियमितोपवेशनानि न भविष्यन्ति तथा सम्पूर्णदिनं केवलं क्षेत्रभ्रमणाय जनसंवादाय समस्यासमाधानाय च समर्पितं भविष्यति। भोपालनगरात् आरभ्य सम्भागजिलास्तरपर्यन्तं सर्वे वरिष्ठाधिकारिणः स्वस्वक्षेत्रेषु भ्रमणं करिष्यन्ति। मुख्यमन्त्री मन्त्रिगणः मुख्यसचिवः स्थानीयजनप्रतिनिधयश्च विभिन्नक्षेत्रेषु गत्वा नागरिकैः सह प्रत्यक्षसंवादं करिष्यन्ति तथा शासकीययोजनानां सेवासु च क्रियान्वयनस्य वास्तविकस्थितेः प्रत्यक्षावलोकनं करिष्यन्ति। जिलासङ्ग्राहकः प्रत्येकस्य भ्रमणक्षेत्रस्य चयनं सप्ताहपूर्वमेव करिष्यति तथा तस्य सूचना जनप्रतिनिधिभ्यः प्रदास्यति। अभियानस्य व्यापकप्रचारप्रसारः माध्यमेषु क्रियते येन अधिकाधिकाः नागरिकाः अभियाने सम्बद्धाः भवेयुः।
भ्रमणात् पूर्वं लम्बितप्रकरणानां समीक्षा भविष्यति
सा अवदत् यत् भ्रमणात् पूर्वं सम्बद्धक्षेत्रे मुख्यमन्त्री हेल्पलाइन जनश्रवणं लोकसेवागारण्टी अधिनियमस्य अन्तर्गतं लम्बितप्रकरणानां विस्तृतसमीक्षा विधाय तेषां शतप्रतिशतनिराकरणस्य प्रयासः भविष्यति। भ्रमणकाले प्राप्तानाम् आवेदनानां शिकायतानां च यथाशक्ति स्थले एव समाधानं सुनिश्चितं भविष्यति। भ्रमणात् पूर्वं भ्रमणानन्तरं च लम्बितप्रकरणानां तुलना कृत्वा जनपदानां कार्यप्रदर्शनस्य मूल्याङ्कनं भविष्यति तथा अभियानस्य नियमितसमीक्षा मुख्यमन्त्रिणः मुख्यसचिवस्य च स्तरे भविष्यति।
जनसंवादे उद्योगसंवादे च विशेषं ध्यानं भविष्यति
जनसम्पर्काधिकारिण्याः अनुसारं प्रत्येकस्मिन् शुक्रवासरे जिलासङ्ग्राहकः स्वजनपदस्य अधिकारिभिः सह क्षेत्रभ्रमणं करिष्यति। अस्मिन् काले जनसंवादः उद्योगसंवादश्च आयोज्येते। उद्योगसंवादे वृहदुद्योगैः एमएसएमई कुटीरोद्योगैश्च सम्बद्धानाम् उद्यमिनां समस्याः स्थले एव समाधास्यन्ते। मुख्यमन्त्री मुख्यसचिवश्च पूर्वनिर्धारितकार्यक्रमानुसारं विभिन्नजनपदानां भ्रमणं करिष्यतः। यस्मिन् जनपदे मुख्यमन्त्रिणः भ्रमणं भविष्यति तस्मिन् जनपदे समाधानम् ऑनलाइन कार्यक्रमोऽपि आयोज्यते। अभियानस्य प्रथमचरणे अगस्तमासस्य कृते बडवानी सीधी श्योपुर पांढुर्ना इति जनपदाः निर्धारिताः सन्ति।
प्रमुखविषयेषु व्यापकसमीक्षा भविष्यति
सा अवदत् यत् अभियानकाले मुख्यमन्त्री हेल्पलाइन जनश्रवणस्य च लम्बितशिकायतानाम् लोकसेवागारण्टी अधिनियमस्य प्रकरणानाम् अविवादितनामान्तरणस्य सीमाङ्कनस्य विभाजनस्य न्यायालयादेशपालनस्य कृषकफार्मर आईडी निर्माणस्य आयुष्मानकार्डस्य समग्रआईडी ई केवाईसी प्रक्रियायाः प्रधानमन्त्रिणः आवासयोजनायाः जलजीवनमिशनस्य आङ्गनवाडीसेवानां स्वास्थ्यसंस्थानानां विद्यालयमहाविद्यालयानां खादबीजोपलब्धेः सार्वजनिकवितरणप्रणाल्याः विविधशासकीययोजनासेवासु च व्यापकसमीक्षा विधाय शीघ्रसमाधानं सुनिश्चितं भविष्यति।
एतेन सह मार्गाणां तडागानाम् अमृतसरोवराणां बन्धानां जलजीवनमिशनस्य अन्तर्गतं निर्मितसंरचनानां शासकीयभवनानाम् अन्येषां सार्वजनिकसम्पत्तीनां च निरीक्षणं भविष्यति। आईटीआई चिकित्सामहाविद्यालयानां प्राथमिकसहकारीसमितीनां तहसीलकार्यालयानां कृष्युपजमण्डीनां मदिराविक्रयकेन्द्राणां पुलिसस्थानकानां लोकसेवाकेन्द्राणां शासकीयदेवस्थानानाम् औद्योगिकक्षेत्राणां च निरीक्षणं भविष्यति। खादबीजविक्रेतॄणां गैसगोदामानां पेट्रोलपम्पानां विस्फोटकपटाकालाइसेंसधारिणां अधिकृतशस्त्रविक्रेतॄणां निजीविद्यालयानां च निरीक्षणमपि भविष्यति।
विधिव्यवस्था सामाजिकसुरक्षायोजनासु च विशेषदृष्टिः भविष्यति
जनसम्पर्काधिकारिण्याः अनुसारं अभियानस्य अन्तर्गतं क्षेत्रे विधिव्यवस्थायाः अपराधनियन्त्रणस्य च स्थितेः समीक्षा भविष्यति। सामाजिकसुरक्षापेन्शन दिव्याङ्गपेन्शनादीनां हितग्राहियोजनानां लाभः पात्रव्यक्तिभ्यः सम्यक् प्राप्नोति वा न वा इत्यस्यापि मूल्याङ्कनं भविष्यति। सहैव स्थानीयस्तरे चिह्नितानां प्रमुखसमस्यानां शिकायतानां चुनौतीनां च समाधानं प्राथमिकतया सुनिश्चितं भविष्यति।
सादगी मितव्ययिता च अभियानस्य विशेषता भविष्यतः
मुख्यमन्त्री जनविश्वासाभियानं सादगी मितव्ययितयोः सिद्धान्तयोः आधारेण सञ्चाल्यते। अभियानकाले अनावश्यकसज्जाया अनावश्यकव्ययस्य च परिहारः क्रियते। वाहनानां सामूहिकव्यवस्था स्वीकृता भविष्यति तथा संवादकार्यक्रमाः शासकीयसंस्थासु सार्वजनिकस्थलेषु उपलब्धाधारसंरचनायाः उपयोगेन आयोज्यन्ते। मुख्यमन्त्री जनविश्वासाभियानस्य चत्वारः प्रमुखस्तम्भाः संवादः समाधानम् संवेदनशीलता सादगी चेति। सामान्यप्रशासनविभागः अभियानस्य नोडलविभागरूपेण कार्यं करिष्यति। एतदभियानं प्रदेशे जनभागीदारीआधारितसुशासनाय नूतनां दिशं प्रदास्यति प्रशासनिकउत्तरदायित्वं वर्धयिष्यति शासनस्य जनतायाश्च मध्ये विश्वाससम्बन्धान् अधिकं सुदृढान् करिष्यति च।
---------------
Hindusthan Samachar / Dheeraj Maithani