Enter your Email Address to subscribe to our newsletters

– संस्थायाः ३४ विद्यार्थिनः अन्ताराष्ट्रिय-स्तरे नियोजनम् अभवत्
भोपालनगरम्, २८ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य राजधान्यां भोपाले स्थितः सन्त-शिरोमणि-रविदास-ग्लोबल-स्किल्स-उद्यानम् उद्योगानाम् आवश्य-कतानुरूपं कुशल-मानव-संसाधन-निर्माणे राष्ट्रीय-स्तरस्य कौशल-विकास-केन्द्ररूपेण प्रतिष्ठितम् अभवत्। अत्र प्रशिक्षणं प्राप्तवतां विद्यार्थिनां प्रायः ९८ प्रतिशतस्य नियोजनम् अभवत्। संस्थायाः ३४ विद्यार्थिनः अन्ताराष्ट्रिय-स्तरेऽपि नियोजनम् अलभन्त। एवं विद्यार्थिभ्यः रोजगार-प्रदाने संस्थायाः उपलब्धिः अत्यन्तं प्रशंसनीया वर्तते।
जनसम्पर्क-अधिकारिणी बबीता-मिश्रा मङ्गलवासरे अवदत् यत् संस्थायां देशस्य १३ राज्येभ्यः आगताः युवानः प्रशिक्षणं प्राप्नुवन्ति। वर्षे २०२५ तमे संस्थया २००० युवभ्यः प्रशिक्षणं प्रमाणपत्रं च प्रदत्तम्। वर्षे २०२६ तमे एषा संख्या प्रायः ३००० पर्यन्तं वर्धिष्यते इति अनुमानम् अस्ति, अग्रिम-द्विवर्षयोः प्रतिवर्षं ६००० युवभ्यः प्रशिक्षणं प्रमाणपत्रं च प्रदातुं लक्ष्यं निर्धारितम् अस्ति। आधुनिक-प्रौद्योगिकी, व्यावहारिक-प्रशिक्षणम् उद्योगानां सहभागिता च एतस्य संस्थानस्य वैशिष्ट्यम् अस्ति, येन युवभ्यः केवलं प्रशिक्षणमेव न, अपितु उत्कृष्ट-रोजगारस्य अवसराः अपि प्रदीयन्ते।
विश्वस्तरीया प्रौद्योगिकी, व्यावहारिक-प्रशिक्षणं च
सा अवदत् यत् वर्षात् २०२४ आरभ्य सिङ्गापुरदेशस्य प्रतिष्ठितया आईटीई एजुकेशन सर्विसेज संस्थया शैक्षणिक-तकनीकी-सहयोगेन नव अत्याधुनिकाः दीर्घकालिक-पाठ्यक्रमाः सञ्चाल्यन्ते। मेक्ट्रोनिक्स, रोबोटिक्स, सीएनसी-अभियान्त्रिकी, वाहन-अभियान्त्रिकी च क्षेत्रेषु एकवर्षीय-प्रशिक्षणस्य अवधौ विद्यार्थिनः आधुनिक-यन्त्रेषु व्यावहारिक-अभ्यासं कुर्वन्ति। प्रशिक्षणस्य उद्देश्यं केवलं प्रमाणपत्र-प्रदानं न, अपितु उद्योगानाम् वास्तविक-आवश्यकतानुरूपं दक्ष-मानव-संसाधन-निर्माणम् अस्ति। अतः अत्र प्रशिक्षिताः युवानः स्वविशिष्टं परिचयं निर्मितवन्तः।
देशस्य यूनां प्रथम-चयनम्
जनसम्पर्क-अधिकारिणी अवदत् यत् संस्थानस्य गुणवत्तायाः प्रमुखं प्रमाणम् अत्र प्रवेशं गृह्यमाणानां विद्यार्थिनां वर्धमाना संख्या अस्ति। अधुना प्रायः ८० प्रतिशतं विद्यार्थिनः आईटीआई-पृष्ठभूमेः, २० प्रतिशतं च पॉलिटेक्निक-अभियान्त्रिकी-पृष्ठभूमिम् आगत्य प्रशिक्षणं प्राप्नुवन्ति। प्रायः १० प्रतिशतं विद्यार्थिनः देशस्य १३ विभिन्न-राज्येभ्यः अध्ययनार्थम् आगच्छन्ति। वर्षे २०२५ तमे १००० विद्यार्थिनः दीर्घकालिक-पाठ्यक्रमेषु प्रविष्टाः, अन्ये १००० अभ्यर्थिनः लघुकालिक-प्रमाणपत्र-प्रशिक्षणम् अलभन्त। एवं एकस्मिन् वर्षे २००० युवानां कौशल-प्रशिक्षणं संस्थानस्य वर्धमानां क्षमतां प्रदर्शयति। वर्षे २०२६ तमे एषा संख्या ३००० पर्यन्तं भविष्यति, आगामी-द्विवर्षयोः प्रतिवर्षं ६००० पर्यन्तं वर्धयितुं लक्ष्यं निर्धारितम् अस्ति।
उद्योगानां वर्धमानः विश्वासः
सा अवदत् यत् उद्योगानां वर्धमानः विश्वासः संस्थानस्य महती उपलब्धिः अस्ति। वर्षे २०२५ तमे प्रथमवारं रिलायन्स इण्डस्ट्रीज, फेडरेशन ऑफ ऑटोमोबाइल डीलर्स एसोसिएशन, जेबीएम ग्रुप, एसआरएफ लिमिटेड, ट्राइडेण्ट ग्रुप च स्वकर्मचारिणां प्रशिक्षणम् अत्र अकारयन्। ट्राइडेण्टसमूहेन स्वकर्मचारिणां तकनीकी-मूल्याङ्कनमपि अस्मिन् संस्थाने एव कारितम्। एतेन संस्थानाय अतिरिक्त-राजस्वः प्राप्तः तथा उद्योगानां प्रशिक्षण-व्यवस्थायाश्च मध्ये सुदृढः समन्वयः स्थापितः।
महिलानां सहभागिता कौशल-विकासश्च
सा अवदत् यत् तकनीकी-शिक्षायां महिलानां सहभागितां वर्धयितुं संस्थानं निरन्तरं प्रयतते। गतवर्षस्य अपेक्षया दीर्घकालिक-पाठ्यक्रमेषु छात्रीणां संख्या प्रायः ४ प्रतिशतं वर्धिता। छात्री-छात्रावासस्य पूर्ण-सञ्चालनानन्तरम् एषा संख्या अधिका भविष्यति। ग्लोबल-स्किल्स-उद्यानं प्रदेशस्य १० सम्भागीय-आईटीआई-संस्थानानां हब-इन्स्टिट्यूटरूपेण कार्यं कुर्वन् विद्यार्थिभ्यः प्रशिक्षकेभ्यश्च प्रशिक्षणम्, कार्यस्थल-प्रशिक्षणम् तथा नियोजन-सहायतां प्रददाति। एतेन प्रदेशे कौशल-विकासस्य गुणवत्ता अधिका सुदृढा भवति।
राष्ट्रीय-अन्ताराष्ट्रिय-स्तरे प्रतिष्ठा
जनसम्पर्क-अधिकारिणी अवदत् यत् ग्लोबल-स्किल्स-उद्यानस्य कार्यप्रणाली अधुना अन्य-राज्यानां देशानां च अध्ययन-विषयः अभवत्। राजस्थान, गुजरात, मेघालय, उत्तरप्रदेश, छत्तीसगढ, असम इत्यादिभ्यः राज्येभ्यः प्रतिनिधिमण्डलानि अत्र आगत्य प्रशिक्षण-व्यवस्थायाः अध्ययनम् अकुर्वन्। इथियोपिया, फिलिपीन्स्, दक्षिण-कोरिया इत्येतेषां देशानां प्रतिनिधयः अपि संस्थानस्य भ्रमणम् अकुर्वन्। एशियन डेवलपमेण्ट् बैङ्क, कौशल-विकास-उद्यमिता-मन्त्रालयस्य तथा एनसीवीईटी-अधिकारिणः अपि प्रशिक्षण-व्यवस्थायाः अवलोकनम् अकुर्वन्। एतत् संस्थानस्य वर्धमान-विश्वसनीयतायाः गुणवत्तायाश्च प्रमाणम् अस्ति।
सा अवदत् यत् अग्रिमेषु वर्षेषु संस्थानस्य प्रशिक्षण-क्षमता प्रतिवर्षं ६००० प्रमाणपत्र-प्रदान-पर्यन्तं वर्धयिष्यते। बजाज ऑटो तथा द वेल्डिङ्ग इन्स्टिट्यूट इत्येतयोः सहयोगेन नवीनाः सुविधाः विकसिताः भविष्यन्ति। उद्योग-कर्मचारिभ्यः कौशल-उन्नयन-कार्यक्रमाणां विस्तारः भविष्यति, महिलानां सहभागिता च अधिका प्रोत्साहिता भविष्यति। वर्तमाने ६००-आसन-क्षमतायुक्तः छात्रावासः १८००-आसन-क्षमः भविष्यति। एनसीईआरटी-सहयोगेन तकनीकी-शिक्षक-प्रशिक्षणम्, पृष्ठवर्ग-कल्याण-विभागस्य सहयोगेन जापानी-भाषा-प्रशिक्षणम् अन्ताराष्ट्रिय-नियोजनं च, एमएसएमई-सहयोगेन इन्क्यूबेशन-केन्द्रम्, एमपीएसईडीसी-सहयोगेन कृत्रिम-बुद्धिमत्ता-प्रयोगशाला, एनएसडीसी-कौशल-केन्द्रम्, विदेशेषु रोजगारम् इच्छद्भ्यः युवभ्यः पीडीओटी-केन्द्रम् तथा सर्वेषां नव-दीर्घकालिक-पाठ्यक्रमाणां एनसीवीईटी-मान्यता सुनिश्चितीक्रियते।
Hindusthan Samachar / Divya Ranjan