नीत राष्ट्रीय जनतांत्रिक गठबंधनस्य 'मंगल मिलन' इत्यस्मिन् उपवेशने संसदीय रणनीतौ मंथनं, पीयूष गोयलो लल्लन सिंहश्च अदत्तां प्रस्तुतिम्
नवदिल्ली, 28 जुलाईमासः (हि.स.)। भारतीयजनतापार्टी भाजपानीतदलस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य राजग एनडीए संसदीयदलस्य साप्ताहिकं मङ्गलमिलन उपवेशनं मङ्गलवासरे संसदपरिसरस्थिते जीएमसी बालयोगी सभागारे सम्पन्नम्। उपवेशने प्रधानमन्त्री नरेन्द्रमोदी केन्
राजग की बैठक में प्रधानमंत्री मोदी के साथ कई सांसद


नवदिल्ली, 28 जुलाईमासः (हि.स.)।

भारतीयजनतापार्टी भाजपानीतदलस्य राष्ट्रियजनतान्त्रिकगठबन्धनस्य राजग एनडीए संसदीयदलस्य साप्ताहिकं मङ्गलमिलन उपवेशनं मङ्गलवासरे संसदपरिसरस्थिते जीएमसी बालयोगी सभागारे सम्पन्नम्। उपवेशने प्रधानमन्त्री नरेन्द्रमोदी केन्द्रीयगृहमन्त्री अमितशाह रक्षामन्त्री राजनाथसिंह सहिताः एनडीए दलस्य बहवः वरिष्ठनेतारः उपस्थिताः आसन्। अस्मिन्नवसरे केन्द्रीयवाणिज्यउद्योगमन्त्री पीयूषगोयल भारतेन विभिन्नदेशैः सह सम्पन्नेषु मुक्तवाणिज्यसमझौतेषु एफटीए विषयेषु प्रस्तुतीकरणम् अकरोत्। अस्मिन् उपवेशने प्रधानमन्त्री मोदी स्वसम्बोधनं नादात्।

सूत्राणां अनुसारेण अस्मिन् उपवेशने मुक्तवाणिज्यसमझौतानां माध्यमेन देशाय प्राप्तमानानां आर्थिकवाणिज्यलाभानां विषये सूचना प्रदत्ता तथा उपवेशने एकः प्रस्तावोऽपि पठितः। अपरञ्च केन्द्रीयमन्त्री राजीवरञ्जनसिंह लल्लनसिंह मत्स्यपालनविभागसम्बद्धानां योजनानां उपलब्धीनां तथा अस्मिन् क्षेत्रे सम्पन्नकार्याणां विषये प्रस्तुतीकरणम् अकरोत्।

उपवेशनानन्तरं सांसदः मनोजतिवारी माध्यमप्रतिनिधिभ्यः उक्तवान् यत् मुक्तवाणिज्यविषये सांसदेभ्यः सूचना प्रदत्ता। वर्षे २०१३ २०१४ पर्यन्तं भारतस्य उपरि महती शुल्कव्यवस्था आसीत्। किन्तु अद्य विश्वस्य विकसितदेशाः अस्माकं देशेन सह मुक्तवाणिज्यसमझौतानां अन्तर्गतं व्यापारं कुर्वन्ति। अपरञ्च अद्य सर्वेभ्यः सांसदेभ्यः आगामिनः शिक्षासम्बद्धविधेयकस्य विषये सूचना प्रदत्ता। तस्मिन् चर्चायां सहभागित्वाय अपि उक्तम्।

उपवेशने प्रथमवारं नवगठिता नेशनलिस्ट सिटिजन्स पार्टी आफ इण्डिया विशेषामन्त्रितरूपेण आमन्त्रिता। अयं दलः विपक्षात् पृथग्भूतैः विंशतिसांसदैः निर्मितः अस्ति। उपवेशने केन्द्रीयस्वास्थ्यमन्त्री जेपीनड्डा वित्तमन्त्री निर्मलासीतारमण केन्द्रीयमन्त्री अर्जुनराममेघवाल राज्यसभासदस्यः राघवचड्ढा भाजपासांसदः निशिकान्तदुबे सहिताः एनडीए दलस्य बहवः सांसदाः नेतारश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani