Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी मङ्गलवासरे एक्स इति सामाजिकमाध्यमे प्रकृतिसंरक्षणस्य तस्याः सम्मानस्य मानवतायाः च कल्याणस्य आधारत्वं प्रतिपादयन् एकं सुभाषितं लिखितवान्। सः उक्तवान् यत् भारतस्य प्राचीना परम्परा मानवं प्रकृत्या सह सामञ्जस्यं स्थापयित्वा जीवनं यापयितुं प्रेरयति।
प्रधानमन्त्री अलिखत्—
“प्रकृतेः संरक्षणे सम्मानने च एव मानवतायाः कल्याणं निहितम्। अस्माकं परम्परापि अस्मभ्यं एतादृशस्य धर्मसम्मतस्य आचरणस्य प्रेरणां ददाति।”सः यत् सुभाषितं उद्धृतवान् तत्—लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥
दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥अस्य अर्थः अस्ति यत् - प्रकृत्या, कालेन, धर्मेण च सह सामञ्जस्यं स्थापयित्वा जीवनयापनमेव सुखस्य, शान्तेः, समृद्धेश्च मार्गः अस्ति। अस्मिन् दिशि रक्षकदेवताः, इन्द्रः इत्येतैः सह सर्वे देवगणाः, वर्षस्य षड्-ऋतवः, सर्वे मासाः, दिवसाः, रात्रयः, प्रत्येकं शुभमुहूर्तश्च मनुष्यस्य जीवने मङ्गलं कल्याणं च आनयन्तु इति प्रार्थना कृता अस्ति। तथा च श्रुतयः, स्मृतयः, धर्मश्च सर्वासु परिस्थितिषु तस्य रक्षां कुर्वन्तु इति कामना अपि कृता।
Hindusthan Samachar / Divya Ranjan