Enter your Email Address to subscribe to our newsletters

नवदेहली, २८ जुलाईमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मु: मङ्गलवासरे राष्ट्रपतिपदे चतुर्वर्षाणां पूर्णतायाः अवसरे राष्ट्रपतिभवने आयोजिते समारोहे अनेके नवीनाः जनोन्मुखाः प्रयत्ना: प्रारब्धवती। अस्मिन् अवसरे राष्ट्रपतिभवनसम्बद्धानां पञ्च प्रकाशनानां विमोचनं कृतम्, ई-उपहारस्य तृतीयसंस्करणस्य शुभारम्भः अभवत्, तथा च ई-अडियो-मार्गदर्शिका, निःशुल्का विद्युत्-बस-सेवा ‘राही’ एवं बालकेभ्यः ‘बचपन-बाल-परिसरः’ इत्यस्य उद्घाटनं कृतम्।
समारोहे उपराष्ट्रपतिः सी.पी. राधाकृष्णन् राष्ट्रपतिमहोदयायै तस्याः राष्ट्रपतित्व-कालम् आधृत्य निर्मितानां प्रकाशनानां प्रथमप्रतिलिपीः समर्पितवान् तथा तेषां औपचारिकविमोचनम् अकरोत्। अस्मिन् अवसरे सूचनाप्रसारणराज्यमन्त्री डॉ. एल. मुरुगन् अपि उपस्थितः आसीत्।
विमोचितेषु प्रकाशनेषु ‘राष्ट्रपतिभवनम् : राष्ट्रस्य भवनम्’, ‘सेवा एवं संवेदना’, ‘समावेशी सहभागिता’, ‘भारतीयतायाः उत्सवः’ तथा ओड़िया-भाषायां प्रतिष्ठितव्यक्तीनां लेखानां सङ्कलनरूपं ‘आमा राष्ट्रपति-आमा गौरव’ इत्येतानि सम्मिलितानि सन्ति।
अस्मिन् अवसरे राष्ट्रपतिः विश्वासं प्रकटितवती यत् एतेषु सचित्रप्रकाशनेषु पाठकाः राष्ट्रपतिभवनस्य परम्पराणां, कार्यप्रणाल्याः तथा विविधपक्षाणां विषये ज्ञानं प्राप्स्यन्ति। सा विश्वासं व्यक्तवती यत् एते सङ्कलनाः नागरिकान् स्वकीयस्य धरोहरस्य गौरवं कृत्वा प्रगतेः मार्गे अग्रे गन्तुं प्रेरयिष्यन्ति।
स्वस्य कार्यकालस्य चतुर्वर्षपूर्त्यवसरे राष्ट्रपतिना ई-उपहारस्य तृतीय-संस्करणस्यापि शुभारम्भः कृतः, यस्मिन् राष्ट्रपतये प्राप्तेषु उपहारेषु चयनितानि ३०० उपहाराणि सार्वजनिक-विक्रयकृते स्थापितानि सन्ति। एषा ई-नीलामी अगस्त-मासस्य ५ दिनाङ्कात् सितम्बर-मासस्य ५ दिनाङ्कपर्यन्तं आयोजिता भविष्यति। अस्याः प्राप्ता सम्पूर्णा आयः सामाजिककार्येषु विनियोजिता भविष्यति।
राष्ट्रपतिः राष्ट्रपतिभवनम् आगच्छतां आगन्तुकानां अनुभवस्य उन्नयनार्थं विकसितायाः ई-अडियो-मार्गदर्शिकायाः अपि शुभारम्भम् अकरोत्। एषा अनुप्रयोग-आधारित बहुभाषीय-मार्गदर्शिका हिन्दी, आङ्ग्लभाषा तथा संविधानस्य अष्टम-अनुसूच्यां सम्मिलितासु अन्यासु १४ भारतीयभाषासु उपलब्धा अस्ति। अस्याम् सांकेतिक-भाषायाः सुविधा अपि प्रदत्ता अस्ति, येन दिव्याङ्गजनाः अपि अस्याः लाभं स्वीकर्तुं शक्नुवन्ति।
हरितस्य समावेशिनः च परिवहनस्य प्रोत्साहनार्थं राष्ट्रपतिना ‘राही’ नाम्नी निःशुल्का विद्युत्-बस-सेवा प्रारब्धा। राष्ट्रपतिसम्पदः कर्मचारिणां निवासिनां च कृते प्रारब्धा २७ आसनयुक्ता एषा बस् व्हीलचेयर-अनुकूलिता अस्ति तथा च अस्याः सञ्चालनं महिला-चालकैः महिला-परिचालकैः च करिष्यते। अस्याः पहलस्य उद्देश्यं विशेषतः महिलाभ्यः, बालकेभ्यः, वरिष्ठनागरिकेभ्यः तथा दिव्याङ्गजनेभ्यः सुरक्षितं सुविधाजनकं च परिवहनं प्रदातुम् अस्ति।
अस्मिन् अवसरे राष्ट्रपतिना राष्ट्रपतिभवनपरिसरे निवसतां बालकानां कृते ‘बचपन-बाल-परिसरस्य’ अपि उद्घाटनं कृतम्। अस्मिन् परिसरे बालकेभ्यः क्रीडास्थानरूपं ‘किलकारी’ क्षेत्रम् तथा तेषां विकासाय संरक्षणाय च सुरक्षितवातावरणं प्रदातुं ‘समर्थ आङ्गनवाडी-सह-पालना’ सम्मिलितम् अस्ति।
उद्घाटनानन्तरं राष्ट्रपतिः बालपरिसरस्य अवलोकनं कृतवती तथा च बालकैः सह संवादमपि अकरोत्।
Hindusthan Samachar / Divya Ranjan