Enter your Email Address to subscribe to our newsletters

अलीपुरद्वारम्, 28 जुलाईमासः (हि. स.)।,जनपदस्य फालाकाटाक्षेत्रे मङ्गलवासरे फालाकाटा द्वितीयग्रामपञ्चायतकार्यालये गङ्गाजलस्य प्रक्षेपणेन कीर्तनस्य माध्यमेन च शुद्धीकरणकार्यक्रमः आयोजितः। अयं कार्यक्रमः कस्मिन् अपि धार्मिकस्थले न अपितु ग्रामपञ्चायतकार्यालये आयोजितः येन सम्पूर्णे क्षेत्रे चर्चायाः वातावरणम् अभवत्।
प्राप्तसूचनानुसारं तृणमूलकाङ्ग्रेसदलस्य प्रधानस्य उपप्रधानस्य च त्यागपत्रयोः अनन्तरं अर्वाचीने काले अस्याः ग्रामपञ्चायत्याः नियन्त्रणम् भारतीयजनतापक्षेण प्राप्तम्। नूतनप्रधानस्य उपप्रधानस्य च पदभारग्रहणस्य अनन्तरं भारतीयजनतापक्षस्य कार्यकर्तृभिः मङ्गलवासरे अस्य शुद्धीकरणकार्यक्रमस्य आयोजनम् कृतम्।
नवनियुक्तः प्रधानः हेमन्तउरांवः उपप्रधाना अनिमासरकारः च अवदताम् यत् गतपञ्चदशवर्षेभ्यः तृणमूलकाङ्ग्रेसदलस्य प्रशासनेन ग्रामपञ्चायतकार्यालयम् अपवित्रम् अभवत्। अतः गङ्गाजलेन कीर्तनेन च अस्य शुद्धीकरणं कृतम्। ताभ्यां एतदपि आश्वासनं दत्तं यत् अधुना ग्रामपञ्चायत्यां पारदर्शिन्यः भ्रष्टाचारमुक्ताः सेवाः प्रदास्यन्ते।
Hindusthan Samachar / Dheeraj Maithani