निर्धारित-समयसीमायां भवन-मार्ग-परियोजनाः सम्पूर्णाः क्रियन्ताम् - रणबीर-गङ्गवा
चण्डीगढनगरम्, २८ जुलाईमासः (हि.स.)। हरियाणा-राज्यस्य लोकनिर्माण-विभागस्य मन्त्री रणबीर-गङ्गवामहोदयः राज्ये प्रवर्तमानाः विविधाः भवन-मार्ग-परियोजनाः निर्धारित-समयसीमायां सम्पूर्णाः कर्तुं निर्देशान् अयच्छत्। विकास-कार्येषु गुणवत्तायाः सुनिश्चितीकरणम
हरियाणा के लोक निर्माण विभाग (भवन एवं सडक़ें) मंत्री रणबीर गंगवा बैठक लेते हुए


चण्डीगढनगरम्, २८ जुलाईमासः (हि.स.)। हरियाणा-राज्यस्य लोकनिर्माण-विभागस्य मन्त्री रणबीर-गङ्गवामहोदयः राज्ये प्रवर्तमानाः विविधाः भवन-मार्ग-परियोजनाः निर्धारित-समयसीमायां सम्पूर्णाः कर्तुं निर्देशान् अयच्छत्। विकास-कार्येषु गुणवत्तायाः सुनिश्चितीकरणम् अत्यावश्यकमिति प्रतिपादयन् सः अवदत् यत् गुणवत्तायाः विषये कस्यापि प्रकारस्य सन्धि: कदापि न सह्यते।

सोमवासरस्य रात्रौ रणबीर-गङ्गवा-महोदयः पञ्चकूला-स्थिते पीडब्ल्यूडी-विश्रामगृहे आयोजितायाः विविध-विकास-परियोजनानां प्रगति-समीक्षा-सभायाः अध्यक्षताम् अकरोत्। अस्यां सभायां विभागस्य मुख्य-अभियन्तारः उपस्थिताः आसन्, सर्वेषां मण्डलानां अधीक्षक-अभियन्तारश्च दृश्य-सम्मेलनस्य माध्यमेन सहभागीभूताः।

सः अवदत् यत् विभागस्य सर्वे अधिकारिणः कर्मचारीणश्च समन्वित-रूपेण कार्यं कुर्वन्तु, येन राज्यवासिभ्यः उत्कृष्टम् आधारभूत-संरचनात्मक-सौकर्यं प्रदीयेत तथा जनसामान्ये विभागस्य विश्वसनीयता अधिकं वर्धेत। मन्त्रिणा प्रवर्तमानानां भवन-निर्माण-परियोजनानां समीक्षां कृत्वा निर्देशाः प्रदत्ताः यत् निर्माण-कार्येषु अनावश्यक-विलम्बः न भवेत् तथा सर्वाः परियोजनाः निर्धारित-समयावधौ सम्पूर्णाः क्रियेरन्, येन जनाः शीघ्रमेव तासां लाभम् आप्नुयुः।

तेन उक्तं यत् याः परियोजनाः अन्तर-विभागीय-विषयाणां कारणेन लम्बिताः सन्ति, तासां सूची सज्जीक्रियताम्, येन सम्बन्धित-विभागैः सह उत्तमः समन्वयः स्थापयित्वा कार्येषु शीघ्रता आनेतुं शक्येत। समये कार्यं न सम्पादयन्तः गुणवत्तायाः च अवहेलनां कुर्वन्तः ठेकेदाराः संस्था: प्रति सूचना-पत्राणि निर्गम्य आवश्यक-कार्यवाहीं क्रियतामिति अपि निर्देशः प्रदत्तः।

रणबीर-गङ्गवामहोदयः वर्षाकाले मार्गेषु उत्पद्यमानानां गर्तानां समस्यायाः विशेषतया संज्ञानं ग्रहीतुं निर्देशान् अददात्। विभागीय-अधिकारिणः आवश्यक-यन्त्रसामग्रीसहितम् अलर्ट्-मोड् इत्यवस्थायां सज्जाः तिष्ठन्तु, येन गर्ताः त्वरितं पूरिताः स्युः तथा जनानां सुगम-आवागमन-सुविधा निरन्तरं स्यात्। ‘म्हारी सड़क’ अनुप्रयोगे आगच्छन्त्याः प्रत्येकं परिवेदनायाः गम्भीरतया विचारः कृत्वा प्राधान्येन समाधानं करणीयमिति निर्देशः प्रदत्तः। विभागस्य एक्सईएन-, एसडीओ- तथा जेई-अधिकारिणः क्षेत्रेषु सतर्काः तिष्ठन्त्विति अपि निर्दिष्टम्, येन वर्षाकाले कापि अप्रिय-घटना न भवेत्।

सभायां मन्त्रिणा रणबीर-गङ्गवामहोदयेन दश-कोटि-रूप्यकाधिक-मूल्यस्य भवन-परियोजनानामपि समीक्षा कृता। तेन निर्देशः प्रदत्तः यत् विभागेन निर्मीयमाणानां परियोजनानां समीपे सूचना-फलकानि स्थापनीयानि, येषु विभागस्य नाम, सम्बन्धित-अधिकारिणः नाम तथा दूरभाष-सङ्ख्या उल्लिखिता भवेत्, येन कश्चन नागरिकः परियोजनासम्बद्धां सूचनां विभागेन सहभागं कर्तुं शक्नुयात्।

Hindusthan Samachar / Divya Ranjan