महाकाल मंदिरे 'रस संगमम्' प्रयत्नस्य जातः शुभारंभः, अधुना मंगलवासरे शुक्रवासरे च मेलिष्यते दक्षिण भारतीय प्रसादः
उज्जैनम्, 28 जुलाईमासः (हि.स.)। श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्या एकं भारतम् अनेकाः परम्पराः इति भावनां साकाररूपेण प्रतिष्ठापयितुं रससङ्गमम् इत्यस्य अभिनवप्रयत्नस्य शुभारम्भः कृतः। अस्याः योजनायाः अन्तर्गतं श्रीमहाकालेश्वरमन्दिरस्य निःशुल्कान्नक
Ras Sangamam – An innovative initiative by the Mahakaleshwar Temple that embodies the spirit of One India, Many Traditions.


उज्जैनम्, 28 जुलाईमासः (हि.स.)।

श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्या एकं भारतम् अनेकाः परम्पराः इति भावनां साकाररूपेण प्रतिष्ठापयितुं रससङ्गमम् इत्यस्य अभिनवप्रयत्नस्य शुभारम्भः कृतः। अस्याः योजनायाः अन्तर्गतं श्रीमहाकालेश्वरमन्दिरस्य निःशुल्कान्नक्षेत्रे अधुना प्रत्येकं मङ्गलवासरे शुक्रवासरे च श्रद्धालुभ्यः दक्षिणभारतीयपरम्परागतं प्रसादं वितरितं भविष्यति।

मन्दिरप्रबन्धसमित्याः अनुसारेण अस्याः योजनायाः उद्देश्यं देशस्य विविधसंस्कृतीनां महाकालनगरे एकस्मिन् मञ्चे समागमः तथा श्रद्धालून् भारतस्य समृद्धसांस्कृतिकविरासतया परिचाययितुम् अस्ति। समितेः मतम् अस्ति यत् भारतस्य परिचयः केवलं भाषिकसांस्कृतिकविविधतया एव न अपितु तस्य समृद्धाभोजनपरम्पराभिरपि भवति।

योजनानुसारं प्रत्येकं मङ्गलवासरे श्रद्धालुभ्यः साम्बारम् इडली अथवा वडा वाष्पपक्वतण्डुलाः मौसमीशाकम् पोंगलप्रसादश्च परोक्ष्यते। तथा प्रत्येकं शुक्रवासरे पुलिहोरा पायसम् रसम् वाष्पपक्वतण्डुलाः मौसमीशाकं च प्रसादरूपेण वितरितं भविष्यति।

श्रीमहाकालेश्वरमन्दिरप्रबन्धसमितेः प्रशासकः प्रथमकौशिक उक्तवान् यत् रससङ्गमम् एकं भारतम् अनेकाः परम्पराः इति केवलं प्रसादवितरणयोजना नास्ति अपितु भारतस्य विविधपाकपरम्पराणां संस्कृतीनां भावनानां च संयोजनस्य सार्थकः प्रयासः अस्ति।

सः अवदत् यत् अस्याः योजनायाः माध्यमेन श्रद्धालुभ्यः भारतीयसंस्कृतेः विविधतायाः अनुभवः प्रदास्यते तथा विविधतायाम् एकता एकं भारतम् श्रेष्ठभारतम् इति भावनयोः अधिकसुदृढीकरणस्य प्रयासः क्रियते। महाकालनगरे देशस्य सर्वभागेभ्यः आगच्छन्तः श्रद्धालवः अस्याः योजनायाः माध्यमेन भारतीयसांस्कृतिकसमरसतायाः राष्ट्रियैकात्मतायाश्च विशेषमनुभवं प्राप्स्यन्ति।

Hindusthan Samachar / Dheeraj Maithani