Enter your Email Address to subscribe to our newsletters


कोरबा, 28 जुलाईमासः (हि. स.)।
कोरबाजनपदस्य पीएम श्री सेजस् स्वामी आत्मानन्द उत्कृष्ट आङ्ग्लमाध्यमविद्यालये बालको इत्यत्र आयोजिते शालाप्रवेशोत्सवकार्यक्रमे मङ्गलवासरे उद्योगवाणिज्यश्रमाबकारीसार्वजनिकोपक्रमविभागस्य मन्त्री लखनलालदेवाङ्गनः सहभागित्वम् अकरोत्। अस्मिन् अवसरे तेन नवप्रविष्टविद्यार्थिनां तिलकं विधाय मधुरपदार्थं प्रदाय च सस्नेहम् स्वागतं कृतम्। तथा च विद्यार्थिभ्यः निःशुल्कपाठ्यपुस्तकानि सायकिलयानानि च वितीर्य तेषां उज्ज्वलभविष्यस्य शुभकामनाः प्रदत्ताः।
कार्यक्रमम् सम्बोधयन् मन्त्री लखनलालदेवाङ्गनः विद्यार्थिनः नियमितरूपेण अध्ययनं कर्तुं स्वलक्ष्यस्य प्रति समर्पितभावेन स्थितुं च प्रेरितवान्। तेन उक्तं यत् शिक्षा जीवने सफलताप्राप्तेः सर्वोत्तमा कुञ्जिका अस्ति। विद्यार्थिभिः परिश्रमेण अनुशासनेन संस्कारैश्च सह अग्रे गत्वा स्वपितृमातृणां विद्यालयस्य जनपदस्य च यशः वर्धनीयम्।
मन्त्री देवाङ्गनः उक्तवान् यत् मुख्यमन्त्री विष्णुदेवसायस्य नेतृत्वे प्रदेशसर्वकारः शिक्षाव्यवस्थायाः सुदृढीकरणाय निरन्तरं कार्यं करोति। शासकीयविद्यालयेषु गुणवत्तायुक्तशिक्षा आधुनिकसुविधाः उत्तमव्यवस्थाश्च प्रदातुं विशेषतया ध्यानं दीयते येन विद्यार्थिनः उत्तमं शैक्षणिकवातावरणं प्राप्नुयुः।
तेन उक्तं यत् प्रदेशे शिक्षकानां न्यूनताया निवारणार्थं युक्तियुक्तीकरणप्रक्रियया समाधानं कृतम्। अपरञ्च सहायकशिक्षकाणां नियुक्तिप्रक्रिया अपि प्रवर्तमाना अस्ति। कोरबाजनपदे जनपदखनिजन्यासनिधेः माध्यमेन नूतनविद्यालयभवनानां निर्माणं क्रियते शिक्षकाणां नियुक्तयः अपि क्रियन्ते च येन बालकानां शिक्षाक्षेत्रे उत्तमसुविधाः उपलब्धाः भवन्ति।
शालाप्रवेशोत्सवस्य अवसरे मन्त्री श्रीदेवाङ्गनः विद्यार्थिभिः जनप्रतिनिधिभिः अभिभावकैश्च सह न्योताभोजने अपि सहभागित्वम् अकरोत्। तेन बालकैः सह संवादं कृत्वा तान् नियमिताध्ययनाय अनुशासनपालनाय उत्तमसंस्कारैः सह जीवने अग्रे गन्तुं प्रेरितवान्।
कार्यक्रमे पार्षदः सत्येन्द्रदुबे एल्डरमैन श्रीमती मन्दाकिनीत्रिपाठी शालाप्रबन्धनसमितेः अध्यक्षः जे एन दुबे प्राचार्यः नीलकण्ठराठौरः प्रफुल्लतिवारी तथा अन्ये जनप्रतिनिधयः शिक्षकाः अभिभावकाः बहुसंख्यकाः छात्राः छात्र्यश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani