राष्ट्रमंडलक्रीडाः 2026: अजय बाबूर्भारोत्तोलनेऽजयद् रजतपदकम्
ग्लासगो, 28 जुलाईमासः (हि.स.)। राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां भारतस्य भारोत्तोलकः वल्लूरि अजयबाबुः भारतीयसमयानुसारं मङ्गलवासरे प्रातःकाले पुरुषाणां ७९ किलोग्राम भारवर्गे उत्कृष्टं प्रदर्शनं कृत्वा रजतपदकं स्वनाम्नि कृतवान्। अत्यन्तरोमाञ्चकस्पर
भारत के भारोत्तोलक वल्लुरी अजय बाबू


ग्लासगो, 28 जुलाईमासः (हि.स.)।

राष्ट्रमण्डलक्रीडा २०२६ स्पर्धायां भारतस्य भारोत्तोलकः वल्लूरि अजयबाबुः भारतीयसमयानुसारं मङ्गलवासरे प्रातःकाले पुरुषाणां ७९ किलोग्राम भारवर्गे उत्कृष्टं प्रदर्शनं कृत्वा रजतपदकं स्वनाम्नि कृतवान्। अत्यन्तरोमाञ्चकस्पर्धायाम् अजयबाबुः दीर्घकालं यावत् स्वर्णपदकप्राप्तौ अग्रे आसीत् किन्तु मलेशियादेशस्य मुहम्मदएरीहिदायत अन्तिमप्रयत्ने क्रीडानां नूतनं कीर्तिमानं स्थापयित्वा स्वर्णपदकं विजितवान्।

अजयबाबुः स्नैचस्पर्धायां १४९ किलोग्राम भारं सफलतया उत्थाप्य राष्ट्रमण्डलक्रीडानां नूतनं कीर्तिमानं स्थापितवान्। द्वितीयप्रयत्ने सः असफलः अभवत् किन्तु तृतीयप्रयत्ने तमेव भारम् उत्थाप्य सः उत्कृष्टां पुनरागमनसफलतां प्रदर्श्य स्नैचस्पर्धायाः अनन्तरं प्रथमस्थानं प्राप्तवान्।

क्लीन एण्ड जर्क स्पर्धायामपि भारतीयक्रीडकः क्रमशः सर्वान् त्रीन् प्रयत्नान् सफलतया सम्पन्नवान्। तेन क्रमशः १७४ किलोग्राम १७८ किलोग्राम १८१ किलोग्राम च भारः उत्थापितः। एवं तस्य समग्रभारः ३३० किलोग्राम अभवत् तथा सः स्वर्णपदकस्य अत्यन्तं समीपम् अगच्छत्।

किन्तु स्पर्धायाः अन्तिमक्षणेषु मलेशियादेशस्य मुहम्मदएरीहिदायत १८४ किलोग्राम भारम् उत्थाप्य नूतनं क्रीडाकीर्तिमानं स्थापितवान्। अनेन तस्य समग्रभारः ३३१ किलोग्राम अभवत् तथा सः केवलम् एककिलोग्रामस्य अन्तरেণ स्वर्णपदकं स्वनाम्नि कृतवान्।

अजयबाबुः षट्सु प्रयत्नेषु पञ्च प्रयत्नान् सफलतया सम्पन्नवान् तथा स्नैचस्पर्धायां नूतनं क्रीडाकीर्तिमानमपि स्थापितवान् किन्तु तस्मै रजतपदकेन एव सन्तोषः कर्तव्यः अभवत्। इङ्ग्लैण्डदेशस्य क्रिसमरे समग्रतः ३२५ किलोग्राम भारम् उत्थाप्य कांस्यपदकं विजितवान्।

अजयबाबोः अस्य उत्कृष्टप्रदर्शनेन भारतस्य पदकसङ्ख्यायाम् अपरमेकं पदकं समवर्धितम् तथा तेन राष्ट्रमण्डलक्रीडासु भारोत्तोलनक्षेत्रे भारतस्य सुदृढपरम्परां अग्रे नीत्वा देशाय पुनरपि महत्त्वपूर्णं पदकं प्राप्तम्।

---------------

Hindusthan Samachar / Dheeraj Maithani