Enter your Email Address to subscribe to our newsletters


देहरादूननगरम्, २८ जुलाईमासः (हि.स.)। उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंह-धामी अवदत् यत् राज्यसर्वकारः स्वच्छां, आधुनिकां, पर्यावरणानुकूलां च परिवहनव्यवस्थां विकसितुं दृढसंकल्पितः अस्ति। एतस्यैव उद्देश्यस्य सिद्ध्यर्थम् उत्तराखण्डे स्वच्छ-गतिशीलता-परिवर्तन-नीतिः–२०२४ प्रवर्तिता अस्ति।
मङ्गलवासरे मुख्यमन्त्री-शिविर-कार्यालये स्थिते मुख्यसेवक-सदने आयोजिते कार्यक्रमे मुख्यमन्त्री धामी उत्तराखण्ड-स्वच्छ-गतिशीलता-परिवर्तन-नीतेः–२०२४ अन्तर्गतं षड्भ्यः लाभार्थिभ्यः अनुदान-धनादेशान् वितरितवान् तथा एकादश स्वच्छ-इन्धन-आधारित-वाहनानि हरित-ध्वजं प्रदर्श्य प्रेषितवान्। अन्येषां पञ्च लाभार्थिनां अनुदान-स्वीकृति-प्रक्रिया अपि परिवहन-विभागेन सम्पन्ना अस्ति।
धामी अवदत् यत् एषा योजना केवलम् आर्थिक-साहाय्यं नास्ति, अपितु प्रदेशे स्वच्छ-इन्धन-आधारित-सार्वजनिक-परिवहनस्य प्रोत्साहनाय तथा डीजल-चालित-वाहनैः जन्यमानस्य प्रदूषणस्य न्यूनीकरणाय महत्त्वपूर्णं पदम् अस्ति। सः अवदत् यत् जलवायु-परिवर्तनस्य समस्यां सम्यक् सम्मुखिनं कर्तुं विकासस्य पर्यावरण-संरक्षणस्य च मध्ये समतुलनम् अत्यावश्यकम् अस्ति।
सः पुनरवदत् यत् प्रधानमन्त्री नरेन्द्र-मोदिनः नेतृत्वे भारतं हरित-ऊर्जा-सतत-विकासयोः दिशि द्रुतगत्या अग्रे गच्छति। राज्यसर्वकारोऽपि तस्यैव चिन्तनस्य अनुरूपं स्वच्छ-परिवहनस्य, विद्युत्-यान-बस-सेवानां, ईवी-आवेशन-केन्द्राणां तथा आधुनिक-नगरीय-परिवहन-प्रणाल्याः विकासाय कार्यं करोति।
मुख्यमन्त्री अवदत् यत् राज्यसर्वकारः उत्तराखण्डं हरित-विकासस्य राष्ट्रीय-आदर्शरूपेण स्थापयितुं प्रयतते। पीएम-सूर्य-गृह-योजनायाः अन्तर्गतं ४० सहस्र-रूफटॉप-सौर-संयन्त्राणां प्रारम्भिक-लक्ष्यं निर्धारित-समयात् पूर्वमेव साधितम्, तथा समग्र-लक्ष्यस्य प्रायः ९५ प्रतिशतं कार्यम् अपि सम्पन्नम् अस्ति।
अस्मिन् कार्यक्रमे परिवहनमन्त्री प्रदीप-बत्रा, मन्त्रिमण्डल-सदस्यः गणेश-जोशी, विधायकः सविता-कपूर, देहरादून-महानगरस्य महापौरः सौरभ-थपलियालः, परिवहन-सचिवः रविनाथ-रमणः तथा अन्ये अधिकारिणः गणमान्य-जनाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan