Enter your Email Address to subscribe to our newsletters



महात्मागान्धीकाशीविद्यापीठस्य अष्टचत्वारिंशत्तमः दीक्षान्तसमारोहः सम्पन्नः
काशी भारतस्य प्राचीना संस्कृति शिक्षायाश्च केन्द्रम् अस्ति इति कैप्टन बी के त्यागी
वाराणसी २८ जुलाईमासः हि. स.। उत्तरप्रदेशस्य वाराणसीजनपदस्थितस्य महात्मागान्धीकाशीविद्यापीठस्य अष्टचत्वारिंशत्तमः दीक्षान्तसमारोहः मङ्गलवासरे सिगरास्थिते रुद्राक्षकन्वेन्शनकेन्द्रे सम्पन्नः। समारोहस्य मुख्यविषयः आसीत् विगतदशके भारतस्य उपलब्धयः विकसितभारतस्य २०४७ लक्ष्यस्य आधारशिला इति। अस्मिन् दीक्षान्तसमारोहे षड्विंशतिः मेधाविनः विद्यार्थिनः यस्मिन् विंशतिः छात्र्यः षट् छात्राश्च समाविष्टाः तथा द्वौ उत्कृष्टक्रीडकौ स्वर्णपदकैः सम्मानितौ। स्नातकस्नातकोत्तरपीएचडी उपाधिषु समष्ट्या त्रिषष्टिसहस्रं एकशतम् त्र्यशीत्यधिकाः विद्यार्थिनः उपाधिभिः सम्मानिताः। तेषु एकचत्वारिंशत्सहस्रं छात्र्यः द्वाविंशतिसहस्रं एकशतम् त्र्यशीत्यधिकाः छात्राश्च आसन्।
दीक्षान्तसमारोहस्य अध्यक्षतां कुर्वती उत्तरप्रदेशस्य राज्यपाला कुलाधिपतिश्च आनन्दीबेनपटेल भारतीयज्ञानपरम्परायाः पाण्डुलिपीनां संरक्षणस्य ज्ञानभारतमभियाने सहभागितायाश्च आह्वानम् अकरोत्। सा महात्मागान्धेः सत्याहिंसयोः आदर्शौ जीवने आचरितुं प्रेरयन्ती उक्तवती यत् महात्मागान्धीकाशीविद्यापीठं महात्मागान्धेः विचाराणां प्रतीकम् अस्ति। महात्मागान्धी केवलं व्यक्तिः नासीत् अपितु महान् विचारः आसीत्। तेन सत्येन अहिंसायाश्च माध्यमेन विश्वाय एषः सन्देशः दत्तः यत् शस्त्रग्रहणं विना अपि साम्राज्यवादीसत्तां प्रत्याह्वातुं इतिहासस्य दिशां परिवर्तयितुं च शक्यते।
राज्यपाला जलसंरक्षणस्य सन्देशं दत्त्वा विद्यार्थिनः प्रधानमन्त्री नरेन्द्रमोदिनः कैच द रेन अभियानं जनान्दोलनरूपेण प्रवर्तयितुं आहूतवती। सा वर्षाजलसञ्चयस्य जलस्रोतसां संरक्षणस्य बहुवृक्षारोपणस्य च महत्त्वम् अवदत् तथा उक्तवती यत् अद्य संरक्षिता वर्षाजलस्य प्रत्येकं बिन्दुः भाविसंततीनां कृते अमूल्या सम्पत्तिः अस्ति। सा अपि उक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदिनः नेतृत्वे भारतस्य सांस्कृतिकविरासतायाः संरक्षणे पुनरुत्थाने च उल्लेखनीयानि कार्याणि भवन्ति। सा केन्द्रीयगृहमन्त्रिणा कोलकातानगरे म्यूजियम आफ वर्ड इत्यस्य उद्घाटनस्य उल्लेखं कृत्वा उक्तवती यत् एषा भारतस्य भाषा साहित्यज्ञानपरम्परां नूतनपीढ्या सह संयोजयन्ती ऐतिहासिकी पहल अस्ति। सा अवदत् यत् भारतं केवलं प्राचीना सभ्यता नास्ति अपितु मानवकल्याणस्य अपि केन्द्रम् अस्ति। भारते ऋषिमुनिभिः अमूल्याः पाण्डुलिपयः ज्ञानविज्ञानानुसन्धानयोः धरोहररूपेण प्रदत्ताः सन्ति याः अधुना अङ्कीयीकृताः क्रियन्ते। सा विद्यार्थिनः प्रेरितवती यत् युवानः केवलं प्रौद्योगिक्याः उपयोगकर्तारः न भवन्तु अपितु तस्याः सर्जकाः भवन्तु। या प्रौद्योगिकी संस्कृत्या सह सम्बद्धा भवति सा एव सार्थका। सृजनशीलता सर्वदा मातृभाषायामेव वर्धते अतः नूतनशिक्षानीत्यां एषः सिद्धान्तः समाविष्टः अस्ति। भारतं प्रति विदेशीयविद्यार्थिनः अपि संस्कृतियोगज्ञानविज्ञानादीनां अध्ययनार्थम् आगच्छन्ति एतत् भारतस्य वैश्विकविश्वसनीयतां प्रकाशयति।
राज्यपाला उक्तवती यत् भारतस्य युवाशक्तिः राष्ट्रनिर्माणस्य महत् ऊर्जास्रोतः अस्ति। युवानां सामाजिकदायित्वेषु राष्ट्रहितकार्येषु च सहभागितां वर्धयितुं पञ्चदशवर्षात् नवविंशतिवर्षपर्यन्तवयस्कानां युवानां मायभारत अनुप्रयोगे पञ्जीकरणं क्रियते। अनेन अद्यावधि द्विकोट्यधिकाः युवानः सम्बद्धाः अभवन्। देशव्यापिनः मायभारत चिन्तनशिविराः अपि आयोज्यन्ते।
समारोहे मुख्यातिथिरूपेण उपस्थितः मुम्बईस्थितस्य शिपिङ्गकार्पोरेशन आफ इण्डिया संस्थायाः अध्यक्षः प्रबन्धनिर्देशकश्च कैप्टन बी के त्यागी अवदत् यत् काशी भारतस्य प्राचीनसंस्कृतेः शिक्षायाश्च केन्द्रम् अस्ति। महात्मागान्धीकाशीविद्यापीठं तस्याः परम्परायाः प्रतीकम् अस्ति। विकसितभारतस्य २०४७ लक्ष्यस्य सिद्ध्यर्थं भारतसर्वकारेण सामुद्रिकक्षेत्रे विविधाः योजनाः प्रवर्तिताः। समग्रा पृथिवी द्वितीयांशाधिकेन जलेन परिवृता अस्ति। भारतम् अपि नदीभ्यः आरभ्य समुद्रपर्यन्तं विकासस्य नूतनप्रयत्नान् करोति। अस्मिन् क्षेत्रे अपि बह्व्यः सम्भावनाः सन्ति। सः उपाधिप्राप्तान् युवानः मर्चेण्टनेवी तथा अन्येषु जलमार्गसम्बद्धरोजगारक्षेत्रेषु आगन्तुं प्रेरितवान्।
विशिष्टातिथिरूपेण उपस्थितः उत्तरप्रदेशस्य उच्चशिक्षामन्त्री योगेन्द्रउपाध्यायः अवदत् यत् शिक्षा संस्कारान् ददाति। शिक्षायाः उद्देश्यं संस्कारयुक्तानां नागरिकाणां निर्माणम् अस्ति। यदा राष्ट्रं अस्मभ्यं बहु ददाति तदा अस्माकम् अपि कर्तव्यं भवति यत् वयं राष्ट्रस्य विकासे साहाय्यं कुर्मः। यत् पदं लभ्यते तेन राष्ट्रसेवायै एव कार्यं करणीयम्। प्रधानमन्त्री नरेन्द्रमोदिनः लक्ष्यं भारतं विकासशीलराष्ट्रस्थितेः विकसितराष्ट्रश्रेण्यां स्थापयितुम् अस्ति।
विशिष्टातिथिः उत्तरप्रदेशस्य उच्चशिक्षाराज्यमन्त्री रजनीतिवारी उक्तवती यत् उपाधिप्राप्त्या भवन्तः सर्वे जीवनस्य नूतनाध्यायं प्रविशन्ति। समाजपरिवारराष्ट्राणां प्रति उत्तरदायित्वबोधः भवत्सु भवेत्। महात्मागान्धीकाशीविद्यापीठस्य राष्ट्रनिर्माणपरम्परां भवन्तः अग्रे नयन्तु। विकसितभारतस्य २०४७ लक्ष्यस्य सिद्धौ युवानामेव महान् योगदानं भविष्यति। सफलतां प्राप्त्वा केवलं स्वकेन्द्रिताः न भूत्वा समाजहिताय अपि कार्यं करणीयम्।
अस्मात् पूर्वं समारोहस्य प्रारम्भे विश्वविद्यालयस्य कुलपतिः प्रो आनन्दकुमारत्यागी कुलाधिपतये विश्वविद्यालयस्य उपलब्धीः निवेदितवान्। तेन विश्वविद्यालयस्य प्रगतिः प्रकाशिता। नूतनशिक्षानीतेः अन्तर्गतं कौशलविकासाधारितान् रोजगारोन्मुखान् क्षमतावर्धकान् पाठ्यक्रमान् नूतनप्रयोगान् च विवृतवान्। क्रीडानुसन्धानयोः क्षेत्रे नवाचारप्रयत्नानां उपलब्धीनां च विस्तरेण उल्लेखः कृतः।
श्रीधररावाय डी लिट् मानदोपाधिः प्रदत्ता
दीक्षान्तसमारोहे भारतीयहस्तकरघाशिल्पयोः नवाचारस्य प्राकृतिकवर्णप्रयोगस्य महिलासशक्तीकरणस्य च माध्यमेन भारतीयशिल्पस्य वैश्विकपरिचयविस्ताराय तेलङ्गानास्थितस्य श्रीदेवीहैण्डलूम संस्थायाः संस्थापकः वाई श्रीधररावः डी लिट् मानदोपाध्या सम्मानितः। अस्मिन् अवसरे विश्वविद्यालयस्य सम्बद्धमहाविद्यालयानां च चत्वारः अध्यापकाः उत्कृष्टशिक्षकसम्मानेन अपि सम्मानिताः। अस्मात् पूर्वं उत्तरप्रदेशस्य राज्यपालायाः कुलाधिपतेः आनन्दीबेनपटेलमहोदयायाः निर्देशनानुसारं पञ्चसप्ततिः बालिकाः किशोरस्वास्थ्यकार्यक्रमस्य अन्तर्गतं एच पी वी टीकाकरणेन लाभान्विताः। दीक्षान्तसमारोहात् पूर्वं दीक्षोत्सव २०२६ कार्यक्रमः अपि समायोजितः।
Hindusthan Samachar / Dheeraj Maithani