Enter your Email Address to subscribe to our newsletters

औरैयानगरम्, २८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे जनपदाधिकारी बृजेशकुमारः मङ्गलवासरे विद्युत्-विभागस्य कार्यप्रणाल्यां कठोरं दृष्टिकोणम् अवलम्ब्य अधिकारिणः कर्मचारिणश्च उपभोक्तृणां सूचनानां त्वरित-निस्तारणं सुनिश्चितं कर्तुं निर्देशान् अददात्। कलेक्ट्रेट-स्थिते मानस-सभागारे आयोजितायां समीक्षासभायां सः स्पष्टतया उक्तवान् यत् विद्युत्-उपभोक्तारः सर्वोपरि सन्ति, तेषां समस्यासु समाधानप्रदाने कापि प्रमादशीलता न सह्यते।
सभायां जनपदाधिकारी विभागीय-अधिकारिभिः उपभोक्तृणां दूरभाष-आह्वानानाम् अनुत्तरदाने विषये प्राप्ताभिः सूचनाभिः असन्तोषम् प्रकटितवान्। सः उक्तवान् यत् अधिकारिणां कर्मचारिणां च एषः व्यवहारः विभागस्य शासनस्य च छविं मलिनं करोति। तेन निर्देशाः प्रदत्ताः यत् यदि कश्चन उपभोक्ता दूरभाषेन सम्पर्कं करोति तर्हि तेन सह शिष्टतया संवादः क्रियताम्, समस्यायाः सम्यक् सूचना प्रदीयताम्, तस्याः शीघ्र-समाधानार्थम् आवश्यक-कार्यवाहीं च क्रियताम्।
अतिशय-विद्युत्-देयक-निर्गमनस्य वर्धमानाः सूचना: गम्भीरतया गृह्णन् जनपदाधिकारी अधिशाषि-अभियन्तारं मीटर-पाठकैः सह सभां कृत्वा स्पष्ट-निर्देशान् दातुं उक्तवान् यत् कस्यापि उपभोक्तुः मिथ्या अथवा अधिकं देयकं न निर्गम्यताम्। सः संचेतनाम् अपि दत्तवान् यत् यदि कस्मिंश्चित् स्तरे प्रमादः अनियमितता वा दृश्यते तर्हि सम्बद्ध-कर्मचारिणः विरुद्धं त्वरितं कठोर-कार्यवाही क्रियते।
जनसुविधार्थं जनपदाधिकारी जनपदस्य सर्वेषु विद्युत्-उपकेन्द्रेषु ‘समस्या-निस्तारण-शिविराणि’ आयोजयितुं निर्देशान् अददात्। तथा च दोषग्रस्तान् ट्रान्सफार्मर-इत्येतान् प्राथमिकतया शीघ्रं प्रतिस्थापयितुम्, रेखा-हानिं न्यूनीकर्तुम्, शत-प्रतिशतं विद्युत्-देयक-सङ्ग्रहं सुनिश्चितं कर्तुम्, शासननिर्धारित-रोस्टरानुसारम् अविच्छिन्नां विद्युत्-आपूर्तिं च निर्वाहयितुं निर्देशाः प्रदत्ताः। सभायाम् अधिशाषी-अभियन्ता विद्युत्-औरैया, अधिशाषी-अभियन्ता विद्युत्-दिबियापुरः तथा जनपदस्य सर्वे सहायक-अभियन्तारः अवर-अभियन्तारः च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan