प्रतिगृहं यावच्छुद्धं पेयजलं प्रापितं, नगर निगमस्य प्राथमिकता : गणेश केसरवानी
प्रयागराजः, 28 जुलाईमासः (हि.स.)। नगरस्य प्रत्येकस्मै नागरिकाय शुद्धं सुरक्षितं पर्याप्तं च पेयजलं प्रदातुं नगरनिगमस्य सर्वोच्चा प्राथमिकता नगरस्य प्रत्येकस्मै नागरिकाय शुद्धं सुरक्षितं पर्याप्तं च पेयजलं प्रदातुं नगरनिगमस्य सर्वोच्चा प्राथमिकता अ
प्रयागराज महापौर गणेश केसरवानी का छाया चित्र


प्रयागराजः, 28 जुलाईमासः (हि.स.)। नगरस्य प्रत्येकस्मै नागरिकाय शुद्धं सुरक्षितं पर्याप्तं च पेयजलं प्रदातुं नगरनिगमस्य सर्वोच्चा प्राथमिकता

नगरस्य प्रत्येकस्मै नागरिकाय शुद्धं सुरक्षितं पर्याप्तं च पेयजलं प्रदातुं नगरनिगमस्य सर्वोच्चा प्राथमिकता अस्ति। अस्यैव लक्ष्यसिद्ध्यर्थं चौखण्डीक्षेत्रस्य यतीमखानामोहल्ले लघुपुनर्भेदनलकूपस्य शिलान्यासः कृतः येन पञ्चशताधिकगृहाणां नियमितं शुद्धं च पेयजलं प्रदास्यते। एतानि वचनानि मङ्गलवासरे लघुपुनर्भेदनलकूपनिर्माणकार्यस्य विधिवत् पूजार्चनया सह शिलान्यासानन्तरं महापौरः गणेशकेसरवानी उक्तवान्।

प्रयागराजनगरनिगमेन नगरे पेयजलव्यवस्थां सुदृढां कर्तुं पुनरपि महत्त्वपूर्णं पदं निक्षिप्तम्। वार्डसंख्या चतुर्नवतिः अन्तर्गतस्य चौखण्डीक्षेत्रस्य यतीमखानामोहल्ले लघुपुनर्भेदनलकूपनिर्माणकार्यस्य विधिवत् पूजार्चनया सह शिलान्यासः कृतः। अस्मिन् कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः महापौरः गणेशकेसरवानी उक्तवान् यत् येषु क्षेत्रेषु दीर्घकालात् पेयजलापूर्तेः समस्या वर्तते तेषु प्राथमिकतया नवीननलकूपाः लघुपुनर्भेदनलकूपाः जलापूर्तिसम्बद्धपरियोजनाश्च शीघ्रतया सम्पाद्यन्ते। महापौरः अवदत् यत् वर्धमानजनसङ्ख्यां जलस्य वर्धमानाम् अपेक्षां च दृष्ट्वा पेयजलव्यवस्थाया दृढीकरणं कालस्य आवश्यकता अस्ति। तेन उक्तं यत् अस्य लघुपुनर्भेदनलकूपस्य निर्माणेन न केवलं जलापूर्तिक्षमता वर्धिष्यते अपितु ग्रीष्मकाले जलाभावात् स्थानीयजनाः अपि राहतिं प्राप्स्यन्ति। तेन अधिकारिणः निर्देशिताः यत् निर्माणकार्यं गुणवत्तामानदण्डानुसारं निर्धारितकालमर्यादायाः अन्तर्गतं च सम्पन्नं भवेत् येन क्षेत्रवासिनः शीघ्रमेव अस्य लाभं प्राप्नुयुः।

महापौरः अवदत् यत् नगरनिगमः जनसामान्यस्य मूलभूतावश्यकतानां सर्वोच्चप्राथमिकतां स्वीकृत्य विकासकार्याणि तीव्रगत्या प्रवर्तयति। अस्याः परियोजनायाः सम्पन्नतायाः अनन्तरं यतीमखानामोहल्लस्य पञ्चशताधिकगृहाणि नियमितं शुद्धं निर्बाधं च पेयजलं प्राप्स्यन्ति।

शिलान्यासकार्यक्रमे स्थानीयनागरिकाः अस्याः पहलस्य स्वागतं कृत्वा उक्तवन्तः यत् अस्मिन् क्षेत्रे दीर्घकालात् उत्तमपेयजलव्यवस्थाया आवश्यकता अनुभूयमाना आसीत्। तेषां आशा अस्ति यत् अस्याः परियोजनायाः सम्पन्नतायाः अनन्तरं जलसंकटस्य समस्यायाः स्थायी समाधानं भविष्यति।

अस्मिन् अवसरे क्षेत्रीयपार्षदः रूद्रसेनजायसवालः मुकेशलारा अकिलुर्रहमानः मनोजमिश्रः सतीशजायसवालः मोहम्मदशादमानः विष्णुत्रिपाठी संजयराणा सन्दीपउपाध्यायः जलकलस्य अधिशासियन्त्री मिथलेशपालः परियोजनाप्रबन्धकः इत्यादयः बहवः स्थानीयनागरिकाः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani