Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 28 जुलाईमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रीयमहामन्त्री तरुणचुघः मङ्गलवासरे सायङ्काले विन्ध्याचलं प्राप्तवान् तथा च माता विन्ध्यवासिन्याः मन्दिरे विधिविधानपूर्वकं दर्शनपूजनम् अकरोत्। त्रिशक्तिमार्गेण मन्दिरं प्राप्ते सति भारतीयजनतापक्षस्य जिलाध्यक्षः लालबहादुरसरोजः नगरविधायकः रत्नाकरमिश्रश्च तस्मै अङ्गवस्त्रं समर्प्य स्वागतं कृतवन्तौ।
ततः परं तरुणचुघः गर्भगृहे माता विन्ध्यवासिन्याः चरणयोः पूजार्चनां कृतवान् तथा मन्दिरपरिसरे विराजमानानां अन्येषां देवीदेवतानां दर्शनं कृत्वा प्रदक्षिणाम् अकरोत्। दर्शनपूजनस्य अवसरे सः प्रदेशस्य देशस्य च सुखसमृद्धये जनकल्याणाय च प्रार्थनाम् अकरोत्।
अस्मिन् अवसरे भारतीयजनतापक्षस्य जिलापदाधिकरिणः जनप्रतिनिधयः बहुसंख्यकाः पक्षकार्यकर्तारश्च उपस्थिताः आसन्। मन्दिरपरिसरे सुरक्षाव्यवस्थायाः समुचिताः प्रबन्धाः अपि कृताः आसन्।
Hindusthan Samachar / Dheeraj Maithani