एससीआई ग्लोबल रजिस्ट्री-२०२५ इत्यस्मिन् बीएचयू-विश्वविद्यालयस्य प्रो. राघवेन्द्ररमणमिश्रः विश्वस्य शीर्ष-पञ्चप्रतिशत-वैज्ञानिकेषु समाविष्टः
वाराणसीनगरम्, २८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य राजीवगान्धी-दक्षिण-परिसरे बरकच्छा स्थिते चिकित्साप्रयोगशालाप्रौद्योगिकीविभागे सहायकाचार्यः डॉ.राघवेन्द्ररमणमिश्रः अन्ताराष्ट्रियस्तरे उल्लेखनीयां सि
प्रो. राघवेंद्र


वाराणसीनगरम्, २८ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य वाराणसीनगरे स्थितस्य काशीहिन्दूविश्वविद्यालयस्य राजीवगान्धी-दक्षिण-परिसरे बरकच्छा स्थिते चिकित्साप्रयोगशालाप्रौद्योगिकीविभागे सहायकाचार्यः डॉ.राघवेन्द्ररमणमिश्रः अन्ताराष्ट्रियस्तरे उल्लेखनीयां सिद्धिम् अवाप्तवान्। तस्य एससीआई ग्लोबल रजिस्ट्री-२०२५ इत्यस्मिन् विश्वस्य शीर्ष-पञ्चप्रतिशत-वैज्ञानिकानां सूच्यां समावेशः अभवत्।

विश्वविद्यालयस्य जनसम्पर्ककार्यालयेन मङ्गलवासरे एषा सूचना प्रदत्ता। तेन उक्तं यत् डॉ. मिश्राय वैज्ञानिक-अनुसन्धानक्षेत्रे उत्कृष्टयोगदानस्य, नवोन्मेषात्मक-कार्याणां तथा उच्चस्तरीयशैक्षणिक-उपलब्धीनां आधारेण एतत् प्रतिष्ठितं सम्मानं प्रदत्तम्।

एससीआई ग्लोबल रजिस्ट्री इत्यस्य एषा वैश्विकी श्रेणीकरणव्यवस्था अनुसन्धानस्य गुणवत्तायाः, वैज्ञानिकप्रकाशनानां प्रभावस्य, उद्धरणानां तथा अन्येषां प्रमुखशैक्षणिकमानदण्डानां व्यापक-मूल्याङ्कनस्य आधारेण निर्मीयते। अस्यां श्रेण्यां एससीआई-जर्नल तथा एससीआर इत्यादयः महत्त्वपूर्णसूचकाङ्काः समाविष्टाः भवन्ति, येषां आधारः स्कोपस्-विवरणभण्डारम् अस्ति।

डॉ. राघवेन्द्ररमणमिश्रस्य एषा उपलब्धिः न केवलं काशीहिन्दूविश्वविद्यालयस्य गौरवस्य विषयः अस्ति, अपितु देशस्य समग्रे युवा-अनुसन्धातृभ्यः विद्यार्थिभ्यश्च प्रेरणादायिनी अपि मन्यते। विश्वविद्यालयेन एतत् संस्थायाः अनुसन्धानोत्कृष्टतायाः वैश्विकशैक्षणिकप्रतिष्ठायाश्च सुदृढी-करणस्य महत्त्वपूर्णः मीलपाषाणः इति निरूपितम्।

Hindusthan Samachar / Divya Ranjan