एचपीवी टीकाकरण सर्वाइकल कर्करोगात् सुरक्षायाः दृढं सामाजिकं कवचम् : आनंदीबेन पटेलः
- महात्मा गांधी काशी विद्यापीठस्य दीक्षांत समारोहे एचपीवी टीकाकरण- अभियानाय अमिलत् नूतनं संबलम् वाराणसी, 28 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपाला आनन्दीबेनपटेलः मङ्गलवासरे वाराणस्यां सिगरास्थिते रुद्राक्षकन्वेन्शनकेन्द्रे आयोजिते महात्मागान
राज्यपाल की मौजूदगी  में एचपीवी टीकाकरण


- महात्मा गांधी काशी विद्यापीठस्य दीक्षांत समारोहे एचपीवी टीकाकरण- अभियानाय अमिलत् नूतनं संबलम्

वाराणसी, 28 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य राज्यपाला आनन्दीबेनपटेलः मङ्गलवासरे वाराणस्यां सिगरास्थिते रुद्राक्षकन्वेन्शनकेन्द्रे आयोजिते महात्मागान्धीकाशीविद्यापीठस्य दीक्षान्तसमारोहे मेधाविविद्यार्थिभ्यः स्वर्णपदकानि प्रदत्तवती। अस्मिन् अवसरे सर्वकारेण सञ्चालितस्य एचपीवी ह्यूमन पैपिलोमा वायरस टीकाकरणाभियानस्य अन्तर्गतं चतुर्दशवर्षपूर्णाभ्यः पञ्चदशवर्षात् न्यूनवयस्काभ्यः बालिकाभ्यः गर्भाशयग्रीवाकर्कटरोगात् रक्षणार्थम् एचपीवी टीका प्रदत्ता। राज्यपाला आनन्दीबेनपटेलः स्वयम् टीकाकरणस्य अनन्तरं बालिकाभ्यः प्रमाणपत्राणि प्रदाय तासाम् उत्साहवर्धनम् अकरोत्। अस्मिन् अवसरे आराध्याशाह अदितिकुमारी मिहिका रोशनीपटेल शबनमखातून पलक च राज्यपालया प्रमाणपत्रैः सम्मानिताः।

दीक्षान्तसमारोहे राज्यपाला आनन्दीबेनपटेलः उक्तवती यत् एचपीवी टीका पुत्रीणां गर्भाशयग्रीवाकर्कटरोगात् रक्षणार्थम् प्रभावी सुरक्षितं च सामाजिकसुरक्षाकवचम् अस्ति। सा बालिकाभ्यः अभिभावकेभ्यश्च आह्वानं कृत्वा उक्तवती यत् भयभीताः मा भवत। धैर्येण स्थित्वा अस्याः टीकायाः ग्रहणं कुरुत। एषा टीका भवतीनां सुरक्षार्थमेव अस्ति।

तया उक्तं यत् वैज्ञानिकानां अनुसन्धानैः एतत् सिद्धं जातम् यत् एषा टीका भविष्ये गर्भाशयग्रीवाकर्कटरोगस्य सम्भावनां न्यूनीकर्तुं सुरक्षितरूपेण प्रभावकरूपेण च कार्यं करोति। तया अभिभावकाः आहूताः यत् ते कस्यापि अफवाहस्य भ्रान्तेः अनावश्यकाशङ्कायाः वा प्रभावे न आगच्छेयुः तथा स्वपुत्रीणां समये एव टीकाकरणं कारयेयुः। सहैव सा समाजे पुत्रपुत्र्योः मध्ये विद्यमानां भेदभावमानसिकतां समाप्तुं बलं दत्त्वा उक्तवती यत् स्वस्था पुत्री एव स्वस्थपरिवारस्य स्वस्थसमाजस्य विकसितराष्ट्रस्य च आधारशिला अस्ति। तया समाजस्य समर्थनागरिकेभ्यः संस्थाभ्यश्च अस्मिन् अभियाने सहयोगं आर्थिकयोगदानं च दातुम् अपि आह्वानं कृतम् येन कापि पुत्री अस्मात् महत्वपूर्णात् सुरक्षाकवचात् वञ्चिता न भवेत्।

कार्यक्रमस्य समये कमिश्नरीसभागारे पञ्चपञ्चाशदधिकशतं बालिकानां तथा रुद्राक्षकन्वेन्शनकेन्द्रे षण्णवतिः बालिकानां एचपीवी टीकाकरणं कृतम्।

अस्मिन् अवसरे मुख्यविकासाधिकारी प्रखरकुमारसिंहः मुख्यचिकित्साधिकारी डा मुकेशकुमारः जनपदप्रतिरक्षणाधिकारी डा एस एस कन्नौजिया अन्ये जनपदस्तरीयाधिकारिणः च उपस्थिताः आसन्।

----------

Hindusthan Samachar / Dheeraj Maithani