Enter your Email Address to subscribe to our newsletters

—लंकातः चतुष्पथः लहुराबीरतः मलदहियां यावत् चतुष्पथं सज्जं,सीर गोवर्धनपुरे अष्टौ स्वागत द्वाराणि
वाराणसी,28 जुलाईमासः (हि.स.)।
सन्तशिरोमणेः गुरुरविदासस्य षट्शतपञ्चाशत्तमजन्मजयन्तीवर्षं भव्यं स्मरणीयं च कर्तुं धर्मनगरी काशी वधूरिव अलङ्कृता
सन्तशिरोमणेः गुरुरविदासस्य षट्शतपञ्चाशत्तमजन्मजयन्तीवर्षं भव्यं स्मरणीयं च कर्तुं धर्मनगरी काशी वधूरिव अलङ्कृता अस्ति। भारतीयजनतापक्षस्य पक्षतः मङ्गलवासरे नगरस्य प्रमुखचतुष्पथेषु विशेषालङ्कारः स्वागतद्वारनिर्माणं विज्ञापनफलकस्थापनं पताकाश्रृङ्खलास्थापनं च कृतम्। जयन्तीसमारोहस्य निमित्तं काश्याः प्रमुखमार्गाः सन्तरविदासस्य जन्मस्थलम् सीरगोवर्धनपुरक्षेत्रं च विशेषरूपेण अलङ्कृतम् अस्ति।
भारतीयजनतापक्षस्य काशीक्षेत्रस्य माध्यमप्रभारी नवरत्नराठी मङ्गलवासरे अवदत् यत् वाराणसीनगरे विंशतिः प्रमुखचतुष्पथाः त्रिपथाश्च अलङ्कृताः सन्ति। तेषु मालवीयप्रतिमालङ्काद्वारम् गुरुधामचतुष्पथः भेलूपुरचतुष्पथः सोनारपुराचतुष्पथः गौदौलियाचतुष्पथः मैदागिनचतुष्पथः चौकचतुष्पथः कबीरमठचतुष्पथः लहुराबीरचतुष्पथः सरदारपटेलप्रतिमामलदहिया साजनत्रिपथः सिगराचतुष्पथः सन्तअतुलानन्दः राजर्षिप्रतिमागिलटबाजारः भोजूबीरत्रिपथः सर्किटहाउसः कचहरीगोलघरचतुष्पथः अम्बेडकरचतुष्पथः पुलिसलाइनत्रिपथः चौकाघाटचतुष्पथः तेलियाबागत्रिपथश्च समाविष्टाः सन्ति। एतेषु स्थानेषु अलङ्कारैः विज्ञापनफलकैश्च सन्तरविदासस्य षट्शतपञ्चाशत्तमजन्मजयन्तीवर्षस्य सन्देशः प्रमुखतया प्रदर्शितः अस्ति।
सीरगोवर्धनपुरे अष्ट स्वागतद्वाराणि निर्मितानि
जन्मस्थले सीरगोवर्धनपुरे आगच्छतां श्रद्धालूनाम् अतिथीनां च स्वागतार्थम् अष्टसु प्रमुखस्थानेषु स्वागतद्वाराणि निर्मितानि सन्ति। तेषु सीरद्वारम् रविदासमन्दिरस्य समीपे रविदासविद्यालयस्य समीपे रविदासोद्यानस्य समीपे सहजअकादम्याः समीपे विशिष्टातिथिद्वारम् काशीपुरमकालोनीस्य सम्मुखे लौटूबीरबाबामन्दिरस्य समीपे डाफीशुल्कद्वारस्य समीपे च स्वागतद्वाराणि निर्मितानि सन्ति। एतानि स्वागतद्वाराणि जयन्तीसमारोहस्य विषयानुरूपेण सन्तरविदासस्य सन्देशानुरूपेण च मनोहररूपेण अलङ्कृतानि सन्ति।
बीएचयू सीरद्वारात् कार्यक्रमस्थलं दीपप्रभया विराजते
समारोहक्षेत्रे प्रकाशस्य अलङ्कारस्य च विशेषव्यवस्था कृता अस्ति। बीएचयू सीरद्वारात् रविदासोद्यानं मार्गीकृत्य कार्यक्रमस्थलपर्यन्तं पताकाश्रृङ्खलाभिः विद्युद्दीपमालाभिश्च विशेषव्यवस्था कृता अस्ति। तदनन्तरं रविदासोद्याने पृथग्रूपेण पताकाश्रृङ्खलानां दीपमालानां च अलङ्कारः कृतः अस्ति। एषः उद्यानः जुलैमासस्य एकोनत्रिंशत्तमे दिने सायङ्काले एकादशसहस्रदीपैः प्रकाशितः भविष्यति। तद्वत् रविदासमन्दिरम् अपि विशेषदीपमालाभिः प्रकाशव्यवस्थया च अलङ्कृतम् अस्ति। अनेन जन्मस्थलं तस्य समीपवर्ती क्षेत्रं च रात्रौ अपि विशेषाकर्षणकेन्द्रं भविष्यति।
------
Hindusthan Samachar / Dheeraj Maithani