समरसता संकल्प अभियानमाधृत्य भाजपादलस्य कार्यशाला
चम्पावतम्, 28 जुलाईमासः (हि.स.)।सन्तशिरोमणेः गुरुरविदासस्य षट्पञ्चाशदधिकषट्शततमी जयन्त्याः उपलक्ष्ये भारतीयजनतापक्षेण सञ्चाल्यमानस्य समरसतासङ्कल्पाभियानस्य सिद्धतासम्बन्धे मङ्गलवासरे जनपदस्तरीया कार्यशाला आयोजिता। कार्यशालायाम् अभियानस्य रूपरेखायाः
भारतीय जनता पार्टी की कार्यशाला में उपस्थित पदाधिकारी एवं कार्यकर्ता


चम्पावतम्, 28 जुलाईमासः (हि.स.)।सन्तशिरोमणेः गुरुरविदासस्य षट्पञ्चाशदधिकषट्शततमी जयन्त्याः उपलक्ष्ये भारतीयजनतापक्षेण सञ्चाल्यमानस्य समरसतासङ्कल्पाभियानस्य सिद्धतासम्बन्धे मङ्गलवासरे जनपदस्तरीया कार्यशाला आयोजिता। कार्यशालायाम् अभियानस्य रूपरेखायाः विषये विस्तरेण चर्चा कृता तथा सामाजिकसमरसतायाः सांस्कृतिकैकतायाः सामाजिकसौहार्दस्य च सुदृढीकरणाय आह्वानं कृतम्।

जनपदमाध्यमप्रभारी राजूगढकोटिना सञ्चालितायाः कार्यशालायाः अध्यक्षतां भाजपाजनपदाध्यक्षः गोविन्दसामन्तः अकरोत्। जनपदप्रभारी गुंजनसुखीजा अभियानस्य विषये जानकारीं दत्त्वा आगामिकार्यक्रमाणां रूपरेखां प्रस्तुतवती। तया उक्तं यत् एकोनत्रिंशत्तमे जुलैदिनात् दशमे सेप्टेम्बरदिनपर्यन्तं समग्रजनपदे समरसतासङ्कल्पाभियानं सञ्चाल्यते। यस्य अन्तर्गतं विविधाः धार्मिकाः सामाजिकाः जनजागरूकतासम्बद्धाश्च कार्यक्रमाः आयोजयिष्यन्ते।

कार्यशालायां कथितं यत् अभियानस्य अन्तर्गतं जनपदस्य देवालयेषु प्रतिदिनं सायङ्काले दीपप्रज्वालनकार्यक्रमाः आयोजयिष्यन्ते। एतेन सह भजनसन्ध्या प्रसादवितरणम् सामूहिकभण्डाराः जनसम्पर्ककार्यक्रमाश्च आयोजयित्वा सन्तरविदासस्य समतायाः मानवतायाः सामाजिकसमरसतायाश्च सन्देशः जनजनं प्रति प्रापयिष्यते। समाजस्य सर्वेषां वर्गाणां सहभागिता सुनिश्चितीकरणे विशेषबलं दास्यते।

कार्यक्रमस्य विशेषता सन्तरविदासस्य जन्मस्थलात् आनीता पवित्रा मृत्तिका भविष्यति। सा जनपदस्य विविधदेवालयानां क्षेत्राणां च मृत्तिकया सह मिश्रिता भविष्यति। एतेन सामाजिकैकतायाः समरसतायाश्च सन्देशः प्रदास्यते। सहैव गुरुपूर्णिमायाः अवसरे प्राप्तस्य प्रसादस्य वितरणम् अपि श्रद्धालुषु भविष्यति। अस्मिन् अवसरे जनपदस्य चतसृषु नगरनिकायेषु लोहाघाट चम्पावत टनकपुर बनबसा इत्येषु नवनामितसदस्यानां सम्मानः अभिनन्दनं च कृतम्। एतदतिरिक्तं भेषजसङ्घस्य अध्यक्षः सदस्याश्च अपि सम्मानिताः।

कार्यशालां सम्बोधयन्तः वक्तारः उक्तवन्तः यत् सन्तरविदासस्य जीवनं सामाजिकसमानतायाः भ्रातृत्वस्य मानवतायाश्च प्रेरणां ददाति। तस्य विचाराः अद्यापि समाजस्य एकीकरणाय समरसतास्थापनाय च मार्गदर्शनं प्रददति। अभियानेन एते विचाराः जनजनं प्रति प्रापयितुं प्रयत्नः क्रियते। कार्यक्रमे महामन्त्री मुकेशकलखुडिया दर्जाराज्यमन्त्री सुभाषबागौली हेमाजोशी केन्द्रीयकार्यकारिणीसदस्यः निर्मलमहरः सतीशपाण्डेयः सहिताः पक्षस्य पदाधिकारिणः जनप्रतिनिधयः कार्यकर्तारश्च उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani