Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 28 जुलाईमासः (हि.स.)। लोकसभाध्यक्षः ओमबिरला केन्द्रीयसडकमार्गपरिवहनराजमार्गमन्त्री नितिनगडकरी अन्ये च विश्वप्रकृतिसंरक्षणदिवसस्य अवसरे मङ्गलवासरे देशवासिभ्यः शुभकामनाः प्रदत्तवन्तः।
ओमबिरला एक्स माध्यमे उक्तवान्, विश्वप्रकृतिसंरक्षणदिवसे आगच्छाम प्रकृतेः संरक्षणमेव स्वभविष्यस्य संरक्षणमिति स्मराम। प्रकृतेः संरक्षणस्य अर्थः केवलं वन्यजीवानां रक्षणमेव न भवति अपितु आगामिपीढीनां कृते वनानां नदीनां शुद्धवायोः प्राकृतिकसंसाधनानां च संरक्षणमपि भवति। प्रत्येकं लघुपदमपि महत्त्वपूर्णम् अस्ति। वृक्षान् रोपयत जलं रक्षत प्लास्टिकद्रव्यस्य उपयोगं न्यूनीकुरुत वन्यजीवानां च सम्मानं कुरुत। आगच्छाम अधिकहरितं स्वस्थं स्थायिभविष्यस्य निर्माणार्थं मिलित्वा कार्यं कुर्मः।
नितिनगडकरी उक्तवान्, प्रकृतिः केवलम् अस्माकं पैतृकसम्पत्तिः नास्ति अपितु सा अस्माकं सामूहिकी उत्तरदायित्वमपि अस्ति। आगच्छाम अस्मिन् अवसरे विवेकपूर्णनिर्णयैः सामूहिकप्रयत्नैश्च स्ववनानां नदीनां वन्यजीवानां जैवविविधतायाश्च संरक्षणस्य सङ्कल्पं कुर्मः। वयं सर्वे मिलित्वा आगामिपीढीनां कृते हरितं स्वस्थं स्थायि च भविष्यं निर्मातुं शक्नुमः।
केन्द्रीयकृषिकिसानकल्याणमन्त्री शिवराजसिंहचौहान उक्तवान्, अद्य विश्वप्रकृतिसंरक्षणदिवसः अस्ति। प्रकृतिः अस्माकं सर्वेषां जीवनस्य दृढाधारः अस्ति। तस्याः समृद्ध्या एव मानवानां जीवनं स्वस्थं सुखमयं च भविष्यति। यदा इयं धरा सुरक्षितं भविष्यति तदा एव मानवानां सर्वेषां जीविनां च जीवनमपि सुरक्षितं भविष्यति। आगच्छाम अस्मिन् अवसरे वयं सर्वे मिलित्वा वृक्षारोपणस्य एकवारप्रयोगप्लास्टिकस्य अनुपयोगस्य जलविद्युतोः संरक्षणस्य जलसंरक्षणस्य नदीनां शुद्धतायाः स्वच्छतायाः च पालनस्य सङ्कल्पं कुर्मः। लघुसङ्कल्पोऽपि विश्वं परिवर्तयितुं शक्नोति। वयं स्वदेशं विश्वं च परिवर्तयेम यथा इयं धरा सर्वेषां जीविनां आगामिपीढीनां च कृते सदा सुरक्षितं तिष्ठेत्।
केन्द्रीयशिक्षामन्त्री प्रह्लादजोशी उक्तवान्, समृद्धस्य ग्रहस्य आरम्भः उत्तरदायिपूर्णनिर्णयैः भवति। आगच्छाम स्वप्राकृतिकसम्पदः संरक्षणस्य तथा तेषां शुद्धऊर्जासमाधानानां प्रोत्साहनस्य सङ्कल्पं कुर्मः ये पर्यावरणस्य संरक्षणं कुर्वन्तः प्रगतिमपि अग्रे नयन्ति।
केन्द्रीयसामाजिकन्यायाधिकारितामन्त्री डाक्टर वीरेन्द्रकुमार उक्तवान्, स्वच्छं जलं हरितानि वनानि समृद्धा जैवविविधता सन्तुलितं पर्यावरणं च विकसितस्य आत्मनिर्भरस्य समृद्धस्य भारतस्य आधारशिलाः सन्ति। प्रकृतेः प्रति संवेदनशीला जीवनशैलीम् अङ्गीकृत्य पर्यावरणसंरक्षणं जनान्दोलनरूपेण स्वीकृत्य एव वयं आगामिपीढीनां कृते सुरक्षितं सशक्तं च भविष्यं निर्मातुं शक्नुमः। आगच्छाम विश्वप्रकृतिसंरक्षणदिवसे पर्यावरणसंरक्षणं स्वजीवनशैल्याः अविभाज्यमङ्गं कृत्वा प्रकृतेः प्रति स्वकर्तव्यस्य पालनं कुर्मः।
केन्द्रीयवस्त्रमन्त्री गिरिराजसिंह उक्तवान्, आगच्छाम अस्मिन् अवसरे वृक्षारोपणस्य पर्यावरणस्य स्वच्छतायाः प्राकृतिकसंसाधनानां संरक्षणस्य च सङ्कल्पं कुर्मः। आगच्छाम आगामिसंततीनां कृते हरितं समृद्धं च भविष्यं निर्माम।
---------------
Hindusthan Samachar / Dheeraj Maithani