Enter your Email Address to subscribe to our newsletters

लखनऊ, 28 जुलाईमासः (हि.स.)।
अद्यतनयुवा सन्ततिः केवलं सेवायाः अन्वेषणपर्यन्तं सीमिता भवितुम् न इच्छति। एषा सन्ततिः नवोन्मेषे प्रौद्योगिक्यां स्टार्टअपव्यवस्थायां डिजिटलव्यवसाये आत्मनिर्भरतायां च स्वभविष्यं पश्यति। अद्यतनयुवभ्यः केवलं रोजगारः न अपेक्षितः अपितु अवसराः मार्गदर्शनम् सम्पर्कजालम् उद्यमिता च समग्ररूपेण अपेक्ष्यन्ते। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः अस्य परिवर्तमानस्य सामाजिकार्थिकपरिदृश्यस्य स्वरूपं पूर्वमेव अवगतम्। अतः प्रदेशसर्वकारः केवलं रोजगारयोजनासु एव न सीमितः अभवत् अपितु युवान् उद्यमिनः कर्तुं सीएम युवा तथा यूथ अड्डा इति अभिनवपरिकल्पनां विकसितवान्। अस्य उद्देश्यम् युवान् केवलं रोजगारान्वेषिभ्यः रोजगारसृजनकर्तॄन् कर्तुम् अस्ति।
युवानां आवश्यकतानाम् अनुरूपेण निर्मितः यूथ अड्डा। अद्यतनयुवा केवलं ऋणम् अथवा अनुदानम् न इच्छति। सः इच्छति यत् कश्चित् तस्य विचारं सम्यक् अवगच्छेत् व्यापारप्रतिमाननिर्माणे साहाय्यं कुर्यात् अनुभवीभिः मार्गदर्शकैः संयोजयेत् बैङ्कप्रक्रियां सरलां कुर्यात् विपणिं प्रति मार्गं च प्रदर्शयेत्। एतासाम् आवश्यकतानाम् आधारेण यूथ अड्डा पारम्परिकप्रशिक्षणकेन्द्ररूपेण न अपितु समग्रोद्यमितातन्त्ररूपेण विकसितः। अत्र व्यापारविचारात् आरभ्य वित्तीयसाहाय्यम् तकनीकीप्रशिक्षणम् डिजिटलविपणनम् फ्रेञ्चाइजीप्रतिमानम् शासकीययोजनानां सूचना अनुभवीनाम् उद्यमिनां मार्गदर्शनम् च एकस्मिन् एव स्थाने उपलब्धं कर्तुं परिकल्पितम् अस्ति।
महाविद्यालयात् प्रत्यक्षं स्टार्टअपव्यवसायं प्रति। प्रदेशसर्वकारेण अनुभूतम् यत् उद्यमितायाः आरम्भः सेवाप्राप्तेः अनन्तरं न भवेत् अपितु महाविद्यालयेषु तकनीकीसंस्थासु च अध्ययनकाले एव भवेत्। अतः यूथ अड्डायाः प्रमुखलक्ष्यम् विश्वविद्यालयानां महाविद्यालयानां पॉलीटेक्निकसंस्थानाम् आईटीआईसंस्थानां च विद्यार्थिनः सन्ति। अत्र छात्राः प्रेर्यन्ते यत् ते उपाधिप्राप्तेः अनन्तरं केवलं सेवायै आवेदनं न कुर्वन्तु अपितु कस्यचित् समस्यायाः समाधानं चिन्तयन्तु तथा तस्मात् कथं सफलम् उद्यमं स्थापयितुं शक्यते इति मनसि धारयन्तु।
केवलं प्रशिक्षणं न अपितु समग्रव्यापारयात्रायां साहाय्यम्। यूथ अड्डा केवलं प्रशिक्षणं दत्त्वा स्वकर्तव्यं न समाप्तं मन्यते। अत्र युवभ्यः व्यापारविचारस्य निर्माणे परियोजनाविवरणनिर्माणे बैङ्कऋणप्राप्तौ उद्यमपञ्जीकरणे जीएसटी व्यवस्थायाम् डिजिटलब्राण्डनिर्माणे गूगलव्यापारप्रोफाइलनिर्माणे व्हाट्सएपव्यवसायस्य उपयोगे ईवाणिज्यमञ्चेषु व्यवसायविस्तारे च निरन्तरं मार्गदर्शनस्य व्यवस्था कृता अस्ति। सहैव शताधिकाः सिद्धाः फ्रेञ्चाइजीप्रतिमानाः अपि उपलब्धाः सन्ति येन प्रथमवारं व्यवसायमारभमाणानां युवानां जोखिमः अत्यन्तं न्यूनः भवेत्।
सर्वकारस्य लक्ष्यं यूथ अड्डां प्रदेशस्य सर्वेषु पञ्चसप्ततिजिलेषु विस्तारयितुम् अस्ति येन लघुनगरेषु ग्रामीणप्रदेशेषु च निवसन्तः युवानः अपि समानावसरान् प्राप्नुयुः। महिलास्वसहायतासमूहेभ्यः पैकेजिङ्ग् ब्राण्डनिर्माणे विपणने च सहयोगः प्रदीयते। सहैव स्थानीयोत्पादानां व्यावसायिकपरिचयस्य विकासे विशेषं ध्यानं दीयते। अनेन ग्रामीणार्थव्यवस्थायाः सुदृढीकरणस्य अपेक्षा अस्ति।
प्रदेशसर्वकारस्य प्रवक्ता वदति यत् यूथ अड्डा केवलं केन्द्ररूपेण न अपितु वर्षपर्यन्तं सक्रियोद्यमितामञ्चरूपेण विकसितः अस्ति। प्रदेशसर्वकारस्य लक्ष्यं वर्षे २०२७ पर्यन्तं पञ्चलक्षयुवानः अस्याः पहलायाः सह संयोजयितुम् सहस्रकोटिरूप्यकाधिकं ऋणं प्रदातुम् दशसहस्राधिकानि नवीनोद्यमानि फ्रेञ्चाइजीव्यवस्थाः च स्थापयितुम् पञ्चविंशतिसहस्राधिकानि एमएसएमई संस्थानि सुदृढानि कर्तुं च अस्ति। सर्वकारस्य मतम् अस्ति यत् यदि युवानः रोजगारयाचकाः न भूत्वा रोजगारदातारः भवन्ति तर्हि तेन केवलं प्रदेशस्य अर्थव्यवस्था एव न सुदृढा भविष्यति अपितु उत्तरप्रदेशस्य एकट्रिलियनडॉलरपरिमितार्थव्यवस्थारूपेण विकासे विकसितभारतम् २०४७ इति लक्ष्यस्य प्राप्तौ अपि नूतना गतिः भविष्यति।
यूपीकॉन महत्वपूर्णां भूमिकां निर्वहति। यूपीकॉनस्य प्रबन्धनिर्देशकः प्रवीणसिंहस्य अनुसारम् मुख्यमन्त्री युवा उद्यमी विकासअभियानस्य सीएम युवा अन्तर्गतं यूपीकॉनेन सञ्चालितः यूथ अड्डा प्रदेशे उद्यमितायाः सशक्तमञ्चरूपेण विकसितः भवति। यूपीकॉन युवभ्यः प्रशिक्षणम् मार्गदर्शनम् परियोजनापरामर्शम् बैङ्कसाहाय्यम् डिजिटलसशक्तीकरणम् उद्योगजगतः सह सम्बन्धस्थापनम् इत्यादीनि सुविधाः प्रददाति। सहैव विविधविभागानाम् वित्तीयसंस्थानाम् उद्योगविशेषज्ञानां च मध्ये समन्वयं स्थापयति। अस्य उद्देश्यं युवभ्यः केवलं योजनानां लाभप्रदानं न अपितु तान् सफलान् उद्यमिनः निर्माय उत्तरप्रदेशस्य अर्थव्यवस्थायै नूतनां गतिं दातुम् अस्ति।
Hindusthan Samachar / Dheeraj Maithani