सर्वकारः सामाजिकसङ्घटनैः सह मिलित्वा २०३० तमं वर्षपर्यन्तं बालविवाहमुक्तभारतस्य लक्ष्यं साधयिष्यति - सावित्री ठाकुर:
नवदेहली, २८ जुलाईमासः (हि.स.)। केन्द्रीय-महिला-बालविकास-राज्यमन्त्री सावित्री-ठाकुर: अवदत् यत् सर्वकारः सर्वेषां सहकारेण नागरिक-समाज-सङ्घटनानां च सहयोगेन २०३० तमं वर्षपर्यन्तं बालविवाहमुक्तभारतस्य लक्ष्यं निश्चितरूपेण साधयिष्यति। सा मङ्गलवासरे संव
कांस्टीट्यूशन क्लब में बाल अधिकारों की सुरक्षा के लिए जमीन पर काम कर रहे 250 से भी अधिक नागरिक समाज संगठनों के नेटवर्क जस्ट राइट्स फॉर चिल्ड्रेन के देश भर से आए सहयोगी संगठनों के चार दिवसीय राष्ट्रीय परामर्श “इंश्योरिंग ए चाइल्ड राइट्स, पोटेंशियल एंड प्रास्पेरिटी” के उद्घाटन सत्र को संबोधित करते हुए केंद्रीय राज्य मंत्री सावित्री ठाकुर


नवदेहली, २८ जुलाईमासः (हि.स.)। केन्द्रीय-महिला-बालविकास-राज्यमन्त्री सावित्री-ठाकुर: अवदत् यत् सर्वकारः सर्वेषां सहकारेण नागरिक-समाज-सङ्घटनानां च सहयोगेन २०३० तमं वर्षपर्यन्तं बालविवाहमुक्तभारतस्य लक्ष्यं निश्चितरूपेण साधयिष्यति।

सा मङ्गलवासरे संविधान-क्लब-इत्यत्र बालाधिकार-संरक्षण-क्षेत्रे कार्यरतानां २५० अधिकानां नागरिक-समाज-सङ्घटनानां जालरूपस्य जस्ट राइट्स फॉर चिल्ड्रेन इत्यस्य देशस्य विविध-भागेभ्यः समागतानां सहयोगि-सङ्घटनानां चतुर्दिवसीय-राष्ट्रीय-परामर्शस्य “इन्श्योरिङ्ग ए चाइल्ड राइट्स, पोटेन्शियल एण्ड प्रॉस्पेरिटी” इत्यस्य उद्घाटन-सत्रम् सम्बोधयन्ती आसीत्।

तया उक्तं यत् बालसंरक्षणस्य क्षेत्रे कार्यं कर्तुं महती समस्या भवति, तथापि भवन्तः सर्वे सर्वकारेण सह पदे पदे गच्छन्तः सर्वाः समस्या: सफलतया अतिक्रामन्ति। अल्पवयस्काः बालिकाः प्रायः मानव-निर्यातानान शिकाराः भवन्ति, ततः परं स्वगृहं प्रति पुनरागन्तुं न शक्नुवन्ति। तादृश्यः बालिकाः कस्यचित् देवदूतस्य प्रतीक्षां कुर्वन्ति, ताः यौन-शोषणस्य पङ्कात् विमोचयन्तः नागरिक-समाज-सङ्घटनानां स्वयंसेवकाः अपि देवदूतसमाना एव सन्ति।

सा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी २०३० तमवर्षपर्यन्तं बालविवाहस्य समूलोन्मूलनाय दृढसङ्कल्पितः अस्ति। ‘बालविवाहमुक्तभारत’ अभियानस्य सफलतार्थं बह्व्यः योजनाः प्रवर्तिताः सन्ति। अस्य अभियानस्य सफलतायै जस्ट राइट्स फॉर चिल्ड्रेन इत्यस्य प्रयत्नानां प्रशंसां कुर्वती सा अवदत् यत् बालविवाहमुक्तभारतस्य स्वप्नसिद्धौ तस्य सङ्घटनस्य योगदानम् अविस्मरणीयं भविष्यति।

अस्मिन् अवसरे एम.पी.'स फॉर चिल्ड्रेन इत्यस्य संयोजकः, लोकसभायां तेलुगुदेशम्-पक्षस्य संसदीय-दलस्य नेता लावु-कृष्ण-देवरायलुः अवदत् यत् बालविवाहस्य विरुद्धं जस्ट राइट्स फॉर चिल्ड्रेन इत्यनेन आरब्धमिदम् आन्दोलनम् अधुना सम्पूर्णविश्वे प्रसृतम् अस्ति। एषः असाधारणः प्रयासः अस्ति, भारतेन च एतत् प्रदर्शितं यत् बालविवाहस्य अन्तः सम्भवः अस्ति।

जस्ट् राइट्स् फॉर् चिल्ड्रेन इत्यस्य संस्थापकः, प्रख्यातः बालाधिकार-कार्यकर्ता भुवन-ऋभुः अवदत्— “२०२४ तमवर्षस्य नवम्बर-मासस्य २७ दिनाङ्के बालविवाहमुक्तभारत-अभियानात् उत्पन्ना चिन्गारी शीघ्रमेव राष्ट्रव्यापिन्यां जनचेतनायां परिवर्तिता। तदनन्तरम् एतत् आन्दोलनं न्यायेन, प्रौद्योगिक्या, नेतृत्वेन सामूहिक-प्रयत्नैश्च प्रत्येकस्य बालकस्य सशक्तीकरणस्य व्यापक-दृष्टिकोणे परिणतः। भारतः जगतः समक्षं दर्शयति यत् यदा सर्वकाराः, नागरिक-समाजः, शैक्षणिक-जगत्, समुदायाः, युवानश्च समानलक्ष्याय एकतां गच्छन्ति, तदा परिवर्तनम् अवश्यं भवति। अधुना एषा केवलं भारतस्य कथा नास्ति, अपितु समग्रविश्वाय संदेशः अस्ति यत् कस्यापि राष्ट्रस्य सर्वोत्तमं निवेशः बालकेष्वेव भवितुमर्हति।”

सः पुनरवदत् यत् यदा वयं कस्मिंश्चिद् ग्रामे एकम् अपि बालविवाहं निवारयामः, तदा वयं केवलम् एकस्य बालकस्य रक्षणं न कुर्मः, अपितु सम्पूर्णसमुदायाय एषः स्पष्टः सन्देशः भवति यत् आधुनिकसमाजे बालविवाहस्य किमपि स्थानं नास्ति। सर्वकारेण सह मिलित्वा वयं गतत्रिषु वर्षेषु पञ्चलक्षाधिकान् पञ्चाशत्सहस्राधिकान् बालविवाहान् निरुद्धवन्तः।

Hindusthan Samachar / Divya Ranjan