जलवृद्धि-पीडितेभ्यः मुख्यमन्त्रिणः महती घोषणा, मृतानां परिजनाः आहत्य नवलक्षरूप्यकाणि प्राप्स्यन्ति
गुवाहाटीनगरम्, २९ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-शर्मा-महोदयेन गत-रात्रौ फेसबुक-लाइव-माध्यमेन जलवृद्ध्या पीडितेभ्यः जनेभ्य: अनेकानि महत्त्वपूर्णानि सहायक-उपायानि घोषितानि। मुख्यमन्त्री अवदत् यत् जलवृद्धौ प्राणान् त्यक
Image of the Assam CM Dr Himanta Biswa Sarma Facebook Live.


गुवाहाटीनगरम्, २९ जुलाईमासः (हि.स.)। असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्त-बिस्व-शर्मा-महोदयेन गत-रात्रौ फेसबुक-लाइव-माध्यमेन जलवृद्ध्या पीडितेभ्यः जनेभ्य: अनेकानि महत्त्वपूर्णानि सहायक-उपायानि घोषितानि।

मुख्यमन्त्री अवदत् यत् जलवृद्धौ प्राणान् त्यक्तवत: प्रत्येकं व्यक्तेः परिजनेभ्यः नवलक्षरूप्यकाणां आर्थिकसाहाय्यं प्रदास्यते। तेषु चत्वारि लक्षरूप्यकाणि राज्यसर्वकारस्य पक्षतः तथा पञ्चलक्षरूप्यकाणि मुख्यमन्त्री-राहत-कोषतः प्रदीयन्ते। तेन एतदपि स्पष्टीकृतं यत् अस्य साहाय्यस्य प्राप्त्यर्थं शवपरीक्षणस्य आवश्यकता न भविष्यति।

डॉ. शर्मा-महोदयेन सूचितं यत् अद्यावधि मुख्यमन्त्री-सहायता-कोषे उदार-व्यक्तिभ्यः संस्थाभ्यश्च २६ कोटि: ५८ लक्षरूप्यकाणां योगदानं प्राप्तम्।

जलवृद्ध्या प्रभावितेभ्यः विद्यार्थिभ्यः अङ्कपत्राणि तथा प्रमाणपत्राणि निःशुल्कं प्रदास्यन्ते। प्रभावित-विद्यालयेभ्यः विद्यालयीय-वेशभूषायाः क्रयार्थं पुनः धनराशिः प्रदास्यते तथा निःशुल्क-पाठ्यपुस्तकानामपि पुनर्वितरणं भविष्यति।

मुख्यमन्त्री विद्यार्थिनां कृते विशेष-वित्तीय-साहाय्यमपि घोषितवान्। अस्याः योजनायाः अन्तर्गतं उच्चतर-माध्यमिक-विद्यार्थिभ्यः १००० रूप्यकाणि, स्नातक-विद्यार्थिभ्यः ३००० रूप्यकाणि, स्नातकोत्तर-विद्यार्थिभ्यः ५००० रूप्यकाणि प्रदास्यन्ते।

तेन उक्तं यत् येषां परिवाराणां गृहाणि, तडागाः, हस्ततन्त्रोद्योगाः तथा कृषिभूमयः जलवृद्ध्या क्षतिग्रस्ताः अभवन्, तेभ्यः अपि सर्वकारेण समुचितं प्रतिकरं प्रदास्यते।

मुख्यमन्त्रिणा एतदपि घोषितं यत् उपरि-असमस्य जलपीडित-परिवारेभ्यः तात्कालिक-सहायता-स्वरूपेण १५,००० रूप्यकाणि प्रदास्यन्ते। एषा धनराशिः त्रि-चतुर्दिनानाम् अन्तरे प्रत्यक्षतया तेषां धनागारेषु प्रेषयिष्यते।

तदतिरिक्तं शिवसागर:, चराइदेव:, जोरहाट: तथा गोलाघाट-जनपदानां अरुणोदय-योजनायाः लाभार्थिभ्यः अस्मिन् समये १२५० रूप्यकाणां स्थाने २५०० रूप्यकाणि प्रदास्यन्ते। एषा धनराशिः ३ अगस्तस्य स्थाने १ अगस्ते एव तेषां धनागारेषु निक्षेपिता भविष्यति।

Hindusthan Samachar / Divya Ranjan