Enter your Email Address to subscribe to our newsletters

रायपुरम्, 29 जुलाईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायगढजनपदस्य प्रवासे भविष्यति। अस्मिन् प्रवासे सः विविधेषु धार्मिकस्थलेषु दर्शनपूजनं करिष्यति तथा अनेकासु कार्यक्रमेषु सहभागं करिष्यति। निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री प्रातः रायपुरस्थितात् सिविललाइनमुख्यमन्त्रिनिवासात् प्रस्थास्यति। ततः रात्रौ नववादनार्धे देहलीप्रवासाय प्रस्थास्यति।
मुख्यमन्त्री प्रथमं ग्रामपञ्चायतबनोरास्थितम् अघोराश्रमं गत्वा गुरुदर्शनं करिष्यति। तदनन्तरं कैलाशपतिधाम मनकामेश्वरशिवमन्दिरे पण्डरीपानीयां दर्शनपूजनं करिष्यति। अनन्तरं कोसमनारास्थितं सत्यनारायणबाबाधाम गत्वा पूजार्चनां करिष्यति तथा अन्येषु निर्धारितकार्यक्रमेषु सहभागं करिष्यति।
निर्धारितकार्यक्रमाणां समाप्त्यनन्तरं मुख्यमन्त्री मध्याह्ने हेलिकाप्टरयानेन रायपुरं प्रत्यागमिष्यति। ततः रात्रौ अष्टवादनार्धे मुख्यमन्त्रिनिवासात् स्वामीविवेकानन्दविमानतलं प्रति प्रस्थास्यति। तत्रतः रात्रौ नववादनार्धे इण्डिगोविमानसेवायाः ६ई ५३४७ सङ्ख्यकविमानेन नूतनदेहलीं प्रति प्रस्थास्यति। रात्रौ एकादशवादने पञ्चविंशतिनिमिषे इन्दिरागान्धीअन्ताराष्ट्रियविमानतले सम्प्राप्य छत्तीसगढसदने रात्रिविश्रामं करिष्यति।
Hindusthan Samachar / Dheeraj Maithani