सुक्खू सर्वकारः तबादलानीतेः नियमः दृढीकृतः, दुर्गम क्षेत्रेषु पूर्णीकरणीय भविष्यति त्रिवर्षीयकार्यकालः
शिमला, 29 जुलाईमासः (हि.स.)।हिमाचलप्रदेशस्य सुक्खूसर्वकारेण राजकीयकर्मचारिणां स्थानान्तरणव्यवस्थायां महत् परिवर्तनं कृतम्। सर्वकारेण स्पष्टतया घोषितं यत् कठिनेषु जनजातीयेषु हार्डप्रदेशेषु अतिदुर्गमप्रदेशेषु च नियुक्ताः अधिकारिणः कर्मचारीणश्च निर्धा
हिमाचल सरकार


शिमला, 29 जुलाईमासः (हि.स.)।हिमाचलप्रदेशस्य सुक्खूसर्वकारेण राजकीयकर्मचारिणां स्थानान्तरणव्यवस्थायां महत् परिवर्तनं कृतम्। सर्वकारेण स्पष्टतया घोषितं यत् कठिनेषु जनजातीयेषु हार्डप्रदेशेषु अतिदुर्गमप्रदेशेषु च नियुक्ताः अधिकारिणः कर्मचारीणश्च निर्धारितकार्यकालं सम्पूर्णतया पूरयित्वा एव तस्मात् स्थानात् स्थानान्तरिताः भविष्यन्ति। कार्मिकविभागेन व्यापकमार्गदर्शकसिद्धान्त २०१३ इत्यस्य षोडशदशमांशस्य प्रथमोपविभागे संशोधनं कृत्वा नूतना व्यवस्था प्रवर्तिता। सर्वकारेण उक्तं यत् पूर्वप्रावधानानां कार्यान्वयने अनेकाः अस्पष्टताः दृश्यन्ते स्म। कर्मचारीणां कृते पञ्चप्रियस्थानविकल्पसम्बद्धप्रावधाने अपि भ्रमस्थितिः उत्पद्यते स्म यतः स्थानान्तरणानि प्रशासनिकावश्यकतां व्यापकजनहितं च दृष्ट्वा एव क्रियन्ते। अतः सर्वकारेण नियमाः अधिकस्पष्टाः कृताः।

संशोधितनियमानुसारं कठिनेषु जनजातीयेषु हार्डप्रदेशेषु अतिदुर्गमप्रदेशेषु च सामान्यकार्यकालः त्रिवर्षात्मकः भविष्यति। सर्वकारेण प्रथमवारं स्पष्टतया उक्तं यत् त्रिवर्षकार्यकालस्य अर्थः तस्मिन् प्रदेशे द्वौ शीतकालौ त्रयः ग्रीष्मकालाश्च वस्तुतः सम्पूर्णतया व्यतीतव्याः। यदि कश्चित् अधिकारी कर्मचारी वा दीर्घकालीनावकाशं गृह्णाति अथवा अन्येन कारणेन दीर्घकालं सेवायाः अनुपस्थितः भवति तर्हि सः कालः कार्यकाले न गण्यते। पुनरागमनानन्तरं तावती अतिरिक्तसेवा तेन तस्मिन्नेव प्रदेशे करणीया भविष्यति। सर्वकारेण उक्तं यत् अनेकाः कर्मचारीणः कठिनप्रदेशेषु नियुक्तेः परिहारं कर्तुं प्रयतन्ते अथवा चिकित्सावकाशेन अन्यैः कारणैः च दीर्घकालं सेवातः दूरं तिष्ठन्ति। अनेन स्वास्थ्यशिक्षादयः आवश्यकराजकीयसेवाः प्रभाविताः भवन्ति। किन्नौर लाहौलस्पीति चम्बाजनपदस्य पाङ्गीप्रदेशे तथा चम्बा कुल्लू शिमला मण्डी सिरमौरजनपदानां दूरवर्तिक्षेत्रेषु कर्मचारीणाम् अभावस्य समस्या दीर्घकालात् दृश्यते यतः बहूनि पदानि रिक्तानि तिष्ठन्ति कर्मचारीणो वा स्वनियुक्तिस्थलात् दीर्घकालं अनुपस्थिताः भवन्ति।

सर्वकारेण अतिरिक्तकार्यभारं वहताम् अधिकारिणां विषये अपि स्पष्टता प्रदत्ता। यदि कश्चित् अधिकारी कठिने जनजातीये हार्डप्रदेशे अतिदुर्गमप्रदेशे वा केवलम् अतिरिक्तकार्यभारं वहति तस्य तत्र नियमितनियुक्तिः नास्ति तर्हि सः कालः तस्मिन् प्रदेशे कृतसेवारूपेण न स्वीकर्तव्यः। सः कालः निर्धारितकार्यकाले न समावेश्यते। एतस्य आधारेण तस्मै अधिकारिणे कर्मचारिणे वा स्थानान्तरणनीत्याः अन्तर्गतं प्राप्तव्या रियायत् वरीयता प्रोत्साहनम् अथवा अन्यः कश्चित् लाभः अपि न भविष्यति।

संशोधितनीत्यां पञ्चपञ्चाशदधिकवयस्केभ्यः अधिकारिभ्यः कर्मचारीभ्यश्च अपि राहत् प्रदत्ता। सर्वकारेण उक्तं यत् यथाशक्ति पञ्चपञ्चाशदधिकवयस्काः अधिकारिणः कर्मचारीणश्च कठिनेषु जनजातीयेषु हार्डप्रदेशेषु अतिदुर्गमप्रदेशेषु च न नियुक्ताः भविष्यन्ति। किन्तु पदोन्नतिसम्बद्धेषु प्रकरणेषु एषा रियायत् न प्रवर्तिष्यते तथा पदोन्नत्याः कारणेन भविष्यति या नियुक्तिः तस्याम् एषः प्रावधानः प्रभावी न भविष्यति। कार्मिकविभागेन निर्गतकार्यालयज्ञापनेन सर्वेभ्यः विभागेभ्यः मण्डलेभ्यः निगमभ्यः अन्येभ्यः सम्बद्धसंस्थाभ्यश्च संशोधितप्रावधानानां सूचना प्रदत्ता तथा तेषां कठोरतया पालनं सुनिश्चितं कर्तुम् निर्देशाः प्रदत्ताः।

---------------

Hindusthan Samachar / Dheeraj Maithani