मध्यप्रदेशे कृषकाणां याचनासु कृषिमन्त्रिणा कंषाना-महोदयेन सकारात्मकमाश्वासनं प्रदत्तम्
भोपालनगरम्, २९ जुलाईमासः (हि.स.)। मध्यप्रदेशे मूङ्ग-उपार्जनेन सह कृषकाणां विविध-याचनानां विषये प्रवर्तमानस्य आन्दोलनस्य मध्ये कृषिमन्त्रिणा ऐदलसिंह-कंषाना-महोदयेन मङ्गल-वासरे सायंकाले कृषक-प्रतिनिधिभिः सह सभां कृत्वा तेषां समस्याः गम्भीरतया श्रुताः
किसानों के साथ कृषि मंत्री कंषाना ने की बैठक


किसानों के साथ कृषि मंत्री कंषाना ने की बैठक


भोपालनगरम्, २९ जुलाईमासः (हि.स.)। मध्यप्रदेशे मूङ्ग-उपार्जनेन सह कृषकाणां विविध-याचनानां विषये प्रवर्तमानस्य आन्दोलनस्य मध्ये कृषिमन्त्रिणा ऐदलसिंह-कंषाना-महोदयेन मङ्गल-वासरे सायंकाले कृषक-प्रतिनिधिभिः सह सभां कृत्वा तेषां समस्याः गम्भीरतया श्रुताः। तेन कृषकेभ्यः आश्वासनं दत्तं यत् राज्यसर्वकारः तेषां न्यायोचित-याचना: प्रति संवेदनशीलः अस्ति तथा च सर्वेषां विषयाणां शीघ्रं सकारात्मक-समाधानार्थम् आवश्यकाः कार्यवाह्यः करिष्यन्ते।

कृषिमन्त्री कंषाना-महोदयः अवदत् यत् प्रदेशसर्वकारः कृषकहितसंरक्षणाय दृढसङ्कल्पितः अस्ति। तेन अधिकारिणः निर्देशिताः यत् कृषकाणां समस्याः प्राथमिकतया निराकर्तव्याः तथा मूङ्ग-उपार्जनेन सह अन्येषु विषयेष्वपि आवश्यकानि पदानि शीघ्रं गृहीतानि स्युः।

कृषिमन्त्री कंषाना-महोदयेन कृषकाः शान्तिं परिपालयितुं संवादस्य माध्यमेन च समाधानं प्राप्तुं प्रार्थिताः। तेन उक्तं यत् सर्वकारः कृषकाश्च परस्परं सहयोगिनौ स्तः। सर्वकारस्य उद्देश्यं कृषकेभ्यः तेषां उपजस्य समुचितं मूल्यं प्रदातुं तथा तान् कस्यापि प्रकारस्य असुविधायाः रक्षणं कर्तुम् अस्ति।

मङ्गलवासरे सायंकाले मन्त्रालये सम्पन्नायां सभायां कृषक-प्रतिनिधिभिः स्वीयाः याचनाः समस्याश्च विस्तरेण प्रस्तुताः। तासां विषये कृषिमन्त्री कंषाना-महोदयेन सर्वेषु बिन्दुषु गम्भीरतया विचारं कृत्वा सम्बन्धित-विभागैः सह समन्वयं विधाय शीघ्रं निर्णयं करिष्यते इति विश्वासः प्रदत्तः।

कृषिमन्त्री कंषाना-महोदयेन विश्वासः व्यक्त: यत् परस्पर-संवादेन सकारात्मक-प्रयत्नैश्च कृषकाणां समस्याः शीघ्रं समाधास्यन्ते तथा प्रदेशे उपार्जन-व्यवस्था अधिका प्रभाविनी सुव्यवस्थिताश्च भविष्यति। अस्मिन्नवसरे कृषि-सचिवः निशान्त-बरबडे-महोदयः, कृषिविभागस्य अधिकारिणः तथा कृषक-सङ्गठनानां प्रतिनिधिमण्डलं च उपस्थितम् आसीत्।

केन्द्रसर्वकारात् मुद्ग-उपार्जनस्य लक्ष्यवृद्धये अनुरोधः कृतः

कृषकैः सह चर्चानन्तरं कृषिमन्त्री कंषाना-महोदयेन केन्द्रीय-कृषिमन्त्रिणे शिवराजसिंह-चौहान-महोदयाय पत्रं सम्प्रेष्य ग्रीष्मकालीन-मुद्ग-उपार्जनस्य लक्ष्यवृद्धये अनुरोधः कृतः। पत्रे तेन उक्तं यत् प्रदेशे ग्रीष्मकालीन-मुद्गस्य क्षेत्रफलं प्रायः १४.३० लक्ष-हेक्टेयर अस्ति। गतवर्षस्य अन्तिमानुमानानुसारम् अथवा अस्य वर्षस्य तृतीय-अग्रिमानुमानानुसारं ग्रीष्मकालीन-मुद्गस्य उत्पादकता १४१० किलोग्राम-प्रति-हेक्टेयर अस्ति। अतः प्रदेशस्य कुलोत्पादनं प्रायः २०.१६ लक्ष-मेट्रिक-टन सम्भाव्यते। गतवर्षे केन्द्र-सर्वकारेण ४.१९ लक्ष-मेट्रिक-टन लक्ष्यं निर्धारितम् आसीत्, किन्तु तस्य विरुद्धं प्रदेशे ७.७२ लक्ष-मेट्रिक-टन मुद्गस्य उपार्जनं कृतम्।

तेन उक्तं यत् कृषकाः स्वोपजस्य उत्तमं मूल्यं प्राप्नुयुः तथा भविष्येऽपि दलहन-उत्पादनं प्रति उत्साहवन्तः भवेयुः, एतदर्थं न्यूनतम-समर्थन-मूल्यस्य अधिकतमः लाभः तेषां प्राप्तव्यः। किन्तु केन्द्र-सर्वकारेण निर्धारितया लक्ष्यसीमया तत् सम्भवं न भविष्यति। अतः विपणनवर्षे २०२६–२७ भारतसर्वकारस्य प्राइस-सपोर्ट-स्कीम अन्तर्गतं राष्ट्रीय-स्तरे निर्धारित-लक्ष्येभ्यः अन्येषां ग्रीष्म-कालीन-मुद्ग-उत्पादक-राज्यानां अवशिष्टांशं मध्यप्रदेशाय प्रदाय संशोधित-प्रस्तावानुसारं लक्ष्यसीमां वर्धयित्वा प्रदेशस्य कुलोत्पादनस्य ४० प्रतिशतं, अर्थात् ८.०६ लक्ष-मेट्रिक-टन इति लक्ष्यं प्रदातव्यमिति अनुरोधः कृतः।

Hindusthan Samachar / Divya Ranjan