‘भगवान् श्रीकृष्ण-मेधावी-छात्रवृत्ति-योजनायाः’ शुभारम्भः भविष्यति; १०२ मेधावि-विद्यार्थिभ्यः एकैकस्मै एकलक्षरूप्यकाणां छात्रवृत्तिः प्रदास्यते
भोपालनगरम्, २९ जुलाईमासः (हि.स.)। मध्यप्रदेशे भारतीय-ज्ञानपरम्परया, संस्कारैः तथा राष्ट्रनिर्माणस्य मूल्यैः नूतनवंशं सम्बद्धुं गुरुपूर्णिमायाः पावनावसरे सम्पूर्णे प्रदेशे ‘महर्षि-सान्दीपनि-गुरुपर्व’ आयोज्यते। अस्मिन्नवसरे प्रदेशस्य सर्वेषु शासकीय-अ
महर्षि सांदीपनि गुरू पर्व का पोस्टर


भोपालनगरम्, २९ जुलाईमासः (हि.स.)। मध्यप्रदेशे भारतीय-ज्ञानपरम्परया, संस्कारैः तथा राष्ट्रनिर्माणस्य मूल्यैः नूतनवंशं सम्बद्धुं गुरुपूर्णिमायाः पावनावसरे सम्पूर्णे प्रदेशे ‘महर्षि-सान्दीपनि-गुरुपर्व’ आयोज्यते। अस्मिन्नवसरे प्रदेशस्य सर्वेषु शासकीय-अशासकीय-विद्यालयेषु, महाविद्यालयेषु, विश्वविद्यालयेषु तथा शिक्षणसंस्थासु गुरु-पूजनम्, सांस्कृतिक-साहित्यिक-कार्यक्रमाः, छात्र-शिक्षक-संवादाः तथा भारतीय-गुरुशिष्य-परम्परायाः आधृतानां विविध-गतिविधीनाम् आयोजनं भविष्यति।

श्रीकृष्ण-पाथेय-न्यासस्य मुख्यकार्य-पालक-अधिकारी श्रीराम-तिवारी-महोदयः अवदत् यत् अस्य पर्वणः प्रमुखम् आकर्षणं ‘भगवान् श्रीकृष्ण-मेधावी-छात्रवृत्ति-योजनायाः’ शुभारम्भः भविष्यति। श्रीकृष्ण-पाथेय-न्यासेन सञ्चाल्यमानायाम् अस्यां योजनायां प्रदेशस्य १०२ मेधावि-विद्यार्थिनः (५१ विद्यालयीयाः तथा ५१ महाविद्यालयीय-विश्वविद्यालयीयाः) चयनं भविष्यति। चयनिताय प्रत्येकं विद्यार्थिने प्रोत्साहन-रूपेण एकलक्षरूप्यकाणां छात्रवृत्तिः प्रदास्यते। एषा प्रतियोगिता भगवानः श्रीकृष्णस्य अर्जितासु चतुर्दश-विद्यासु, चतुःषष्टि-कलासु, महर्षेः सान्दीपनेः तथा भारतीय-ज्ञानपरम्परायाम् आधृता भविष्यति। विजेतॄणाम् अन्तिमचयनं पारदर्शी-लॉटरी-प्रक्रियया भविष्यति।

तेन उक्तं यत् भगवत: श्रीकृष्णस्य व्यक्तित्वं केवलं तस्य लीलाभिः पराक्रमेण च न परिसीमितम्, अपितु महर्षेः सान्दीपनेः आश्रमे प्राप्तया शिक्षया, संस्कारैः तथा अनुशासनेन परिपूर्णम् अभवत्। तत्रैव तेन चतुर्दश-विद्याभिः चतुःषष्टि-कलाभिश्च विवेकः, सेवा, धैर्यम्, कर्तव्यपरायणता तथा राष्ट्रभक्तेः शिक्षणं प्राप्तम्। एषैव गुरुशिष्य-परम्परा तस्य जीवनस्य महती शक्तिरभवत् तथा तं ‘जगद्गुरु’ इति रूपेण प्रतिष्ठापितवती। अस्य छात्रवृत्ति-प्रतियोगितायाः मूलोद्देश्यं नूतनवंशं भारतीय-ज्ञानपरम्परया, संस्कारैः तथा राष्ट्रनिर्माणस्य मूल्यैः सम्बद्धुम् अस्ति।

तिवारी-महोदयेन उक्तं यत् गुरुपूर्णिमायाः अस्मिन् पावनावसरे मुख्यमन्त्रिणा डॉ. यादव-महोदयेन विरचिता ‘भारतीय-गुरुपरम्परायाः शिल्पी महर्षिः सान्दीपनिः’ इति पुस्तकस्य लोकार्पणं भविष्यति। तदनन्तरं महाराज-विक्रमादित्य-शोधपीठेन प्रकाशितस्य ‘महर्षिः सान्दीपनिः श्रीकृष्ण-विद्याञ्जलिः’ तथा जनजातीय-लोककला-विकास-अकादम्या प्रकाशितस्य ‘सर्वाङ्ग’ इति ग्रन्थस्य विमोचनमपि भविष्यति। यूनः प्रेरयितुं महर्षेः सान्दीपनेः जीवनवृत्तम् आधृत्य निर्मिता विशेषा ई-पुस्तिका अपि प्रदेशस्य सर्वासु शिक्षणसंस्थासु उपलब्धा क्रियते।

उल्लेखनीयं यत् संस्कृतिविभागस्य अधीनस्थस्य ‘श्रीकृष्ण-पाथेय-न्यासस्य’ प्रमुखोद्देश्यं राज्ये भगवत: श्रीकृष्णस्य यात्राभिः सम्बद्धानां स्थानानां परिचयः, संरक्षणं तथा विकासः अस्ति। न्यासस्य माध्यमेन उज्जयिन्यां चतुर्दश-विद्यानां चतुःषष्टि-कलानां च शिक्षणार्थं सान्दीपनि-गुरुकुलस्य स्थापना, अनुसन्धान-ग्रन्थालयानां निर्माणं तथा युवानः भगवत: श्रीकृष्णस्य जीवनदर्शनेन भावात्मकतया सम्बद्धुं निरन्तरं कार्यं क्रियते। श्रीराम-तिवारी-महोदयेन प्रदेशस्य समस्त-विद्यार्थिनः, शिक्षकान् तथा नागरिकान् अस्मिन् सांस्कृतिक-अभियाने उत्साहपूर्वकं सहभागित्वाय आहूताः।

Hindusthan Samachar / Divya Ranjan