Enter your Email Address to subscribe to our newsletters

भोपालनगरम्, २९ जुलाईमासः (हि.स.)। मध्यप्रदेशे अद्य भोपालनगरस्य कुशाभाऊ-ठाकरे-अन्ताराष्ट्रिय-अधिवेशन-केन्द्रे मुख्यमन्त्रिणः डॉ. मोहन-यादव-महोदयस्य मुख्यातिथ्ये अन्ताराष्ट्रिय-व्याघ्र-दिवसस्य अवसरे राज्यस्तरीयः कार्यक्रमः आयोज्यते।
अस्मिन् कार्यक्रमे मुख्यमन्त्री डॉ. यादव-महोदयः वन्यजीव-संरक्षणार्थं प्राप्तानां वाहनानां लोकार्पणं करिष्यति तथा वन्यजीव-संरक्षण-गतिविधीनां सम्बन्धिनीं प्रदर्शिनीम् अवलोकयिष्यति। तेन विभागीय-प्रकाशनानां विमोचनम्, सक्रिय-वन्यजीव-प्रबन्धनसम्बद्धानां वृत्तचित्राणां टीजर-विमोचनं, राज्य-वन्यप्राणी-परिषद: पद्मश्री-पुरस्कारेण सम्मानितानां सदस्यानाम् अभिनन्दनं च करिष्यते। अपि च वन्यजीव-संरक्षणक्षेत्रे उत्कृष्टं कार्यं कुर्वतीभ्यः वन-सुरक्षा-समितिभ्यः, ईको-विकास-समितिभ्यः, ग्राम-वन-समितिभ्यः तथा वनकर्मिभ्यः पुरस्काराः वितरिष्यन्ते।
जनसम्पर्क-अधिकारी के. के. जोशी-महोदयेन सूचितं यत् कार्यक्रमे विद्यालय-महाविद्यालयानां छात्रैः छात्राभिश्च सांस्कृतिक-कार्यक्रमाः अपि प्रस्तुताः भविष्यन्ति। अस्मिन्नवसरे वन-पर्यावरण-राज्यमन्त्री दिलीपसिंह-अहिरवार-महोदयः, प्रमुख-सचिवः, प्रधान-मुख्य-वन-संरक्षकः तथा वनबल-प्रमुखः, प्रधान-मुख्य-वन-संरक्षकः, अपर-प्रधान-मुख्य-वन-संरक्षकः तथा वनविभागस्य अधिकारिणः कर्मिणश्च उपस्थिताः भविष्यन्ति।
Hindusthan Samachar / Divya Ranjan