Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 29 जुलाईमासः (हि.स.)।
अन्ताराष्ट्रियव्याघ्रदिने अवसरे प्रधानमन्त्री नरेन्द्रमोदी देशवासिभ्यः वन्यजीवप्रेमिभ्यश्च शुभकामनाः प्रदत्तवन्तः तथा व्याघ्रसंरक्षणे भारतस्य प्रतिबद्धतां पुनरुक्तवान्। सः अवदत् यत् विश्वस्य प्रायः सप्ततिप्रतिशतव्याघ्राः भारते निवसन्ति इति विषये भारतं गौरवान्वितम् अस्ति। प्रधानमन्त्री सामाजिकमाध्यमे उक्तवान् यत् भारते व्याघ्रसंरक्षणस्य प्रयासाः प्रकृत्या सह सामञ्जस्यपूर्णजीवनस्य अस्माकं शताब्दीपरम्परया प्रचलितसंस्कृतेः जनसहभागितायाश्च भावनया प्रेरिताः सन्ति। वैज्ञानिकाधारितसंरक्षणेन सामुदायिकसहभागितया सततविकासेन च देशः व्याघ्रसंरक्षणं अधिकं सुदृढं कर्तुं निरन्तरं प्रयतते। सः व्याघ्रसंरक्षणे महत्त्वपूर्णं योगदानं कुर्वतां वनकर्मिणां वैज्ञानिकानां संरक्षणवादिनाञ्च समर्पणस्य प्रशंसां कृतवान् तथा तेषाम् अथकप्रयत्नैः भारतेन अस्मिन् क्षेत्रे उल्लेखनीयाः उपलब्धयः प्राप्ताः इति उक्तवान्। प्रधानमन्त्री अवदत् यत् केन्द्रसरकारः स्थानीयसमुदायान् सशक्तान् कर्तुं मानववन्यजीवसंघर्षं न्यूनीकर्तुं च अपि प्रतिबद्धा अस्ति। सामूहिकप्रयत्नैः भारतः जैवविविधतासंरक्षणक्षेत्रे नूतनाः उन्नतयः प्राप्स्यति इति विश्वासं प्रधानमन्त्रिणा व्यक्तीकृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani