प्रधानमन्त्री-मोदी-महोदयेन गुरुपूर्णिमायां गुरोः षड्विधानां स्वरूपाणां महत्त्वं प्रतिपादितम्
नवदेहली, २९ जुलाईमास: (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन गुरुपूर्णिमायाः पावनावसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः तथा गुरोः महत्त्वं विशेषरूपेण प्रतिपादितम्। तेन उक्तं यत् गुरुः केवलं ज्ञानमेव न ददाति, अपितु स्वशिष्येषु सकारात्मक-ऊर्जाय
प्रधानमंत्री नरेन्द्र मोदी


नवदेहली, २९ जुलाईमास: (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन गुरुपूर्णिमायाः पावनावसरे देशवासिभ्यः शुभकामनाः प्रदत्ताः तथा गुरोः महत्त्वं विशेषरूपेण प्रतिपादितम्। तेन उक्तं यत् गुरुः केवलं ज्ञानमेव न ददाति, अपितु स्वशिष्येषु सकारात्मक-ऊर्जायाः सञ्चारं कृत्वा तान् सद्विचारैः सुसंस्कारैश्च सुशिक्षितान् करोति। प्रधानमन्त्री सर्वान् गुरूणाम् आदर्शान् स्वजीवनस्य सम्बल-रूपेण स्वीकर्तुम् आहूतवान्।

प्रधानमन्त्रिणा मोदी-महोदयेन बुधवासरे एक्स माध्यमे सुभाषितमिदं समवेदितम्—

“प्रेरकः सूचकश्चैव वाचको दर्शकस्तथा।शिक्षकः बोधकश्चैव षडेते गुरवः स्मृताः॥”

अस्मिन् सुभाषिते गुरोः षट् स्वरूपाणां वर्णनं कृतम्। अस्य भावार्थः अस्ति यत् यः जनः जीवने प्रेरणां ददाति, सम्यक् मार्गस्य निर्देशनं करोति, ज्ञानस्य सत्यस्य च बोधं जनयति, मार्गदर्शनं करोति, शिक्षां ददाति, अवबोधनं विकसित्य आत्मविकासस्य मार्गं प्रशस्तं करोति, स एव गुरुरिति स्मरणीयः।

प्रधानमन्त्री पुनरपि अवदत् यत् गुरवः ज्ञानप्रदानेन सह शिष्येषु सकारात्मक-ऊर्जायाः सञ्चारं कुर्वन्ति तथा च तान् सद्विचारैः उत्तमसंस्कारैश्च संस्कुर्वन्ति।

Hindusthan Samachar / Divya Ranjan