Enter your Email Address to subscribe to our newsletters

ग्लासगो, 29 जुलाईमासः (हि.स.)।
भारतीयधावकः गुलवीरसिंहः राष्ट्रमण्डलक्रीडा २०२६ मध्ये इतिहासं रचयन् मङ्गलवासरे पुरुषाणां दशसहस्रमीटरधावनस्पर्धायां रजतपदकं स्वनाम्नि कृतवान्। अनेन सः अस्यां स्पर्धायां पदकं प्राप्तवान् प्रथमः भारतीयपुरुषक्रीडकः अभवत्। सः सप्तविंशतिनिमिषाः एकोनपञ्चाशत्सेकण्डाः अष्टसप्ततिशतांशाः इति कालेन एताम् उपलब्धिं प्राप्तवान्।
राष्ट्रमण्डलक्रीडासु पुरुषाणां दशसहस्रमीटरधावनस्पर्धायां भारतस्य एतत् प्रथमं पदकम् अस्ति। पुरुषमहिलाविभागयोः समग्ररूपेण अपि अस्यां स्पर्धायां भारताय षोडशवर्षानन्तरं पदकं प्राप्तम्। अस्य पूर्वं देहलीनगर्यां २०१० तमे वर्षे सम्पन्नासु राष्ट्रमण्डलक्रीडासु कवितारावत् महिलानां दशसहस्रमीटरधावनस्पर्धायां कांस्यपदकं प्राप्तवती।
स्पर्धायाः आरम्भे राष्ट्रियअभिलेखधारकः गुलवीरसिंहः प्रमुखधावकैः सह अग्रस्थानस्य समीपे एव आसीत्। चतुःसहस्रमीटरपर्यन्तं सः तृतीयस्थाने आसीत् किन्तु अर्धदूरीसमाप्तौ षष्ठस्थानं प्राप्तवान्। ततः सः उत्कृष्टं पुनरागमनं कृत्वा षट्सहस्रमीटरसप्तसहस्रमीटरपर्यन्तं पञ्चमस्थानं प्राप्तवान्। अष्टसहस्रमीटरस्थले सः पुनः षष्ठस्थाने आगतः किन्तु अन्तिमसहस्रमीटरावशिष्टे चतुर्थस्थानं प्राप्तवान्।
अन्तिमचरणे गुलवीरसिंहः अद्भुतवेगं प्रदर्शितवान्। सः अन्तिमसहस्रमीटरदूरीं द्विनिमिषैः एकोनत्रिंशत्सेकण्डैः द्विशतांशैः च पूर्णां कृत्वा स्वप्रतिद्वन्द्विनः पराजित्य रजतपदकं प्राप्तवान्।
आस्ट्रेलियादेशस्य काइरॉबिन्सन् सप्तविंशतिनिमिषाः अष्टचत्वारिंशत्सेकण्डाः त्रिनवतिशतांशाः इति कालेन स्वर्णपदकं प्राप्तवान्। आइल आफ् मैनदेशस्य डेविडमुलार्की सप्तविंशतिनिमिषाः पञ्चाशत्सेकण्डाः अष्टाविंशतिशतांशाः इति कालेन कांस्यपदकं प्राप्तवान्। स्वर्णरजतपदकयोः मध्ये केवलं पञ्चाशीतिशतांशसेकण्डस्य अन्तरम् आसीत् तथा रजतकांस्यपदकयोः मध्ये केवलं पञ्चाशतिशतांशसेकण्डस्य अन्तरम् आसीत्।
गुलवीरसिंहस्य एतत् प्रदर्शनं भारतीयदीर्घदूरीधावनस्य इतिहासे नूतना उपलब्धिः इति रूपेण अभिलिखितम्। तेन राष्ट्रमण्डलक्रीडानां दशसहस्रमीटरधावनस्पर्धायां भारतस्य षोडशवर्षीयं पदकप्रतीक्षाकालः अपि समाप्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani