कांवडयात्रां प्रति अर्धसहस्राधिक-द्विसहस्र आरक्षककर्मिणः नियुक्ताः भविष्यन्ति
नोएडानगरम्, २९ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य नोएडानगरे आरक्षकविभागेन कांवडयात्रायाः कृते सुदृढाः व्यवस्थाः कृताः सन्ति। कांवडयात्राकाले नगरस्य विभिन्नेषु मार्गेषु शिवालयेषु च अर्धसहस्राधिक-द्विसहस्रम् आरक्षककर्मिणः नियुक्ताः भविष्यन्ति। कांवडमा
अपर पुलिस उपायुक्त कानून व्यवस्था राजीव नारायण मिश्रा


नोएडानगरम्, २९ जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य नोएडानगरे आरक्षकविभागेन कांवडयात्रायाः कृते सुदृढाः व्यवस्थाः कृताः सन्ति। कांवडयात्राकाले नगरस्य विभिन्नेषु मार्गेषु शिवालयेषु च अर्धसहस्राधिक-द्विसहस्रम् आरक्षककर्मिणः नियुक्ताः भविष्यन्ति। कांवडमार्गस्य निरीक्षणं ड्रोन-यानैः अपि करिष्यते।

अपर-आरक्षक-उपायुक्तः राजीव-नारायण-मिश्र-महोदयः अवदत् यत् श्रावणमासस्य प्रारम्भः समीपे वर्तते। नोएडानगरात् तथा एनसीआर-प्रदेशस्य विविधस्थानभ्यः जनाः जलग्रहणार्थं हरिद्वारं गमिष्यन्ति तथा जलं गृहीत्वा स्वस्व-गन्तव्यस्थानानि प्रति प्रस्थिताः भविष्यन्ति। गौतमबुद्धनगर-जनपदे कांवडयात्रायाः अष्टौ प्रमुखमार्गाः सन्ति। तेषु सर्वेषु मार्गेषु सीसीटीवी-चित्रग्रहण-यन्त्राणि स्थापितानि सन्ति तथा मार्गेषु शिवालयेषु च आरक्षकबलं नियुक्तम् अस्ति। सर्वेषां मार्गाणां स्थलीय-निरीक्षणम् अपि कृतम्। सीसीटीवी-यन्त्राणां माध्यमेन निरन्तरं पर्यवेक्षणं क्रियते। नियन्त्रण-कक्षे राजपत्रितः अधिकारी नियुक्तः अस्ति। आन्तरिक-विभागीय-समितिः अपि गठिता, यस्यां स्वास्थ्य-विभागेन, विद्युत्-विभागेन, राष्ट्रीय-राजमार्ग-प्राधिकरणेन तथा राज्य-राजमार्ग-विभागेन सह सभा: सम्पन्नाः। एते मार्गाः अपि सम्यक् संस्कारिताः।

तेन उक्तं यत् कांवडमार्गे आरक्षकबलस्य नियुक्त्यर्थं समुचिताः व्यवस्थाः कृताः सन्ति। प्रायः २५०० आरक्षककर्मिणः कांवडमार्गेषु विविधेषु शिवालयेषु च नियुक्ताः भविष्यन्ति। डीजे-सञ्चालकाः अपि निर्देशिताः यत् ध्वनिस्तरः निर्धारित-मानकानुसारमेव स्थापनीयः। तेन सूचितं यत् कांवडमार्गस्य निरीक्षणं ड्रोन-यानैः करिष्यते तथा सर्वेषां यात्रिणां सुरक्षायाः सम्यक् व्यवस्था सुनिश्चितीक्रियते।

Hindusthan Samachar / Divya Ranjan