प्रत्येकं व्यक्तेः समस्यायाः समाधान सर्वकारस्य प्राथमिकता : मुख्यमंत्री योगी
गोरखपुरम्, 29 जुलाईमासः (हि.स.)। । गोरखपुरप्रवासस्य अवसरे मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे प्रातः गुरुपूर्णिमापर्वसम्बद्धानुष्ठानिककार्यक्रमेषु व्यस्ततायामपि जनतादर्शनकार्यक्रमम् आयोजितवान्। सः जनैः सह मिलित्वा तेषां समस्याः अशृणोत् तथा अधिकार
मुख्यमंत्री योगी आदित्यनाथ जी, दिनांक 29 जुलाई  2026 को गोरखनाथ मंदिर, गोरखपुर में आयोजित जनता दर्शन में लोगों की समस्याओं को सुना और संबंधित अधिकारियों को प्राथमिकता के साथ जन-समस्याओं के शीघ्र निराकरण के निर्देश दिए।


मुख्यमंत्री योगी आदित्यनाथ जी, दिनांक 29 जुलाई  2026 को गोरखनाथ मंदिर, गोरखपुर में आयोजित जनता दर्शन में लोगों की समस्याओं को सुना और संबंधित अधिकारियों को प्राथमिकता के साथ जन-समस्याओं के शीघ्र निराकरण के निर्देश दिए।


गोरखपुरम्, 29 जुलाईमासः (हि.स.)। ।

गोरखपुरप्रवासस्य अवसरे मुख्यमन्त्री योगीआदित्यनाथः बुधवासरे प्रातः गुरुपूर्णिमापर्वसम्बद्धानुष्ठानिककार्यक्रमेषु व्यस्ततायामपि जनतादर्शनकार्यक्रमम् आयोजितवान्। सः जनैः सह मिलित्वा तेषां समस्याः अशृणोत् तथा अधिकारिणः निर्देशितवान् यत् प्रत्येकस्य जनस्य समस्यायाः समाधानं सर्वकारस्य प्राथमिकता अस्ति। जनानां समस्याः गम्भीरतया संवेदनशीलतया च स्वीकृत्य तासां त्वरितं सन्तोषजनकं च समाधानं सुनिश्चितं क्रियताम्।

बुधवासरे प्रातः गुरुपूर्णिमापूजनानन्तरं गोरक्षनाथमन्दिरे आयोजिते जनतादर्शने मुख्यमन्त्री योगीआदित्यनाथः प्रायः द्विशतजनैः सह मिलितवान्। मन्दिरपरिसरे महन्तदिग्विजयनाथस्मृतिभवनस्य बहिः उपवेशितानां जनानां समीपं मुख्यमन्त्री स्वयं गतवान् तथा एकैकस्य समस्यां श्रुतवान्। सः सर्वान् आश्वासितवान् यत् कस्यापि जनस्य चिन्तायाः आवश्यकता नास्ति। सर्वेषां समस्याः निश्चितरूपेण समाधास्यन्ते। जनानां प्रार्थनापत्राणि स्वीकृत्य अधिकारिभ्यः प्रदत्तानि तथा निर्देशः दत्तः यत् प्रत्येकस्य समस्यायाः त्वरितं गुणात्मकं सन्तोषजनकं च समाधानं भवेत्।

जनतादर्शने गम्भीररोगचिकित्सायै आर्थिकसाहाय्यस्य याचनां कृत्वा आगतान् जनान् मुख्यमन्त्री योगीआदित्यनाथः आश्वासितवान् यत् धनाभावात् कस्यापि चिकित्सोपचारः न स्थगितः भविष्यति। सः प्रशासनम् आदिशत् यत् सम्बन्धितरोगिणः चिकित्सासम्बद्धस्य व्ययमाननिर्धारणस्य प्रक्रिया शीघ्रं सम्पाद्य शासनाय प्रेष्यताम्। व्ययमाननिर्धारणं प्राप्तमात्रेण उपचारार्थं धनराशिः विमोक्ष्यते। जनतादर्शनस्य अवसरे कतिपयाभिः महिलाभिः सह आगतान् बालकान् अपि मुख्यमन्त्री स्नेहेन आशीर्वादेन च सम्मान्य चाकलेटनामकं मधुरपदार्थं प्रदत्तवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani