श्यामा प्रसाद मुखर्जिनः 125तमायाः जयंत्याः द्विवर्षीयस्य आधिकारिकसमारोहस्य भविष्यति शुभारंभः, अमित शाहः भविष्यति मुख्यातिथिः
नवदिल्ली, 05 जुलाईमासः (हि.स.)। संस्कृतिमन्त्रालयः पश्चिमबङ्गसर्वकारस्य सहयोगेन भारतकेसरिणः डा. श्यामाप्रसादमुखर्जिनः १२५ तमायाः जयन्त्याः द्विवर्षीयाधिकारिकसमारोहस्य अन्तर्गतं सोमवासरे ६ जुलाई २०२६ दिनाङ्के कोलकातास्थिते मिलनमेलाप्राङ्गणे विशेषस
amit shah


नवदिल्ली, 05 जुलाईमासः (हि.स.)।

संस्कृतिमन्त्रालयः पश्चिमबङ्गसर्वकारस्य सहयोगेन भारतकेसरिणः डा. श्यामाप्रसादमुखर्जिनः १२५ तमायाः जयन्त्याः द्विवर्षीयाधिकारिकसमारोहस्य अन्तर्गतं सोमवासरे ६ जुलाई २०२६ दिनाङ्के कोलकातास्थिते मिलनमेलाप्राङ्गणे विशेषस्मारककार्यक्रमस्य आयोजनं करिष्यति।

केन्द्रीयगृहसहकारितामन्त्री अमितशाहः कार्यक्रमे मुख्यातिथिरूपेण उपस्थितः भविष्यति। अस्मिन् कार्यक्रमे केन्द्रीयसंस्कृतिपर्यटनमन्त्री गजेन्द्रसिंहशेखावतः पश्चिमबङ्गस्य मुख्यमन्त्री सुवेन्दुअधिकारी पश्चिमबङ्गसर्वकारस्य मुख्यसचिवः मनोजअग्रवालः संस्कृतिमन्त्रालयस्य सचिवः विवेकअग्रवालः अन्ये च विशिष्टगणमान्यजनाः अपि सम्मिलिताः भविष्यन्ति।

उल्लेखनीयम् अस्ति यत् संस्कृतिमन्त्रालयेन दूरदर्शिनः राजनेतुः शिक्षाविदः सांसदस्य राष्ट्रवादिनः नेतुः च भारतकेसरिणः डा. श्यामाप्रसादमुखर्जिनः १२५ तमायाः जयन्त्याः उपलक्ष्ये २०२५ तमे वर्षे द्विवर्षीयस्य राष्ट्रव्यापिसमारोहस्य घोषणा कृता आसीत् येन तस्य अमरविरासतस्य सम्मानं कर्तुं शक्येत।

---------------

Hindusthan Samachar / Dheeraj Maithani